________________
त्रिषष्टिशलाकापुरुषचरिते
॥८४॥
| दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
भिक्षाक्षणोऽभून्नवेति लीनो गोशाल ऐक्षत । तत्र ग्रामे तदानीं चाऽभवच्चौरभयं महत् ।। ५४५ ॥ चौरोऽयं चौरचारो वा निलीनो यदुदीक्षते । एवं वितळ ते ग्राम्या गोशालकमकुट्टयन् ॥ ५४६ ॥ मम धर्मगुरोस्तेजस्तपो वा यदि तद् द्रुतम् । दह्यतां मण्डपोऽमीषामिति गोशालकोऽशपत् ॥ ५४७ ॥ व्यन्तरैर्भगवद्भक्तैरदह्यत स मंडपः । जगाम च जगन्नाथः सन्निवेशं कलम्बुकम् ।। ५४८ ।। तत्रोभौ भ्रातरौ मेघः कालहस्ती च शैलपौ । कालहस्ती तदा सैन्यैरधावच्चौरपृष्ठतः ।। ५४९ ।। गोशालसहितं नाथमागच्छन्तं ददर्श सः । चौरावित्याशशंके च तादृशामीदृशी हि धीः ।। ५५० ।। कौ युवामिति सोऽपृच्छत् स्वामी मौनीत्युवाच न । केलिप्रियत्वाद्गोशालोऽप्यस्थान्मौनी प्लवंगवत् ।। ५५१ ॥ गोशालं स्वामिनमपि स बद्ध्वा भ्रातुरार्पयत् । स्वामिनं दृष्टपूर्वी च मेघः सिद्धार्थसेवकः ।। ५५२ ।। क्षमयित्वाऽमुचन्मेघो नाथं नाथोऽपि चावधेः । ज्ञात्वाऽचिन्तयदद्यापि निर्जार्य बहु कर्म मे ।। ५५३ ।। कर्मासहायैस्तन्मन्ये न हि क्षय्य झगित्यपि । जय्यं महद् द्विषच्चक्रं विना न खलु सैनिकैः ।। ५५४ ।। आर्यदेशे विहरता सहाया दुर्लभा मया । तस्मादनार्यदेशेषु विहरिष्यामि संप्रति ॥ ५५५ ।। एवं विमृश्य भगवान्निसर्गक्रूरपुरुषम् । विवेश लोढाविषयं यादोघोरमिवार्णवम् ।। ५५६ ।। १ निजार्य , निजीय , निर्जयं । * लाय । लाट ।
उपसर्गवर्णनम् ।
॥८४॥