________________
त्रिषष्टिशलाका
पुरुषचरि ॥८३॥
तन्मुक्त ऊचे गोशालः स्वामिन्नद्यापि किं नु माम् । उपेक्षसे हन्यमानं वज्रवन्निष्ठुरोऽसि हा ।। ५३२ ॥ सिद्धार्थस्तमभाषिष्ट सुष्ट्वद्यापि निहन्यसे । व्याधिनेवांगोत्थितेन स्वभावेनामुनैव हि ।। ५३३ ।। कायोत्सर्गं पारयित्वा ग्राम आवर्तनामनि । गत्वा स्वामी बलदेवौकस्यस्थात् प्रतिमाधरः ।। ५३४ ॥ डिम्भांस्तत्रापि गोशालो भीषयामास पूर्ववत् । तत्पितृभिः कुट्यते स्म चक्रीवानिव दुर्मदः ।। ५३५ ।। गतेषु तत्पितृष्वर्भान् पुनर्भीषयते स्म सः । प्राणात्ययेऽपि जन्तूनां प्रकृतिः खलु दुस्त्यजा ।। ५३६ ॥ क्रुद्वास्तत्पितरोऽभ्येत्य परस्परमदोऽवदन् । वराकं बालकुट्टाकं कुट्टयित्वालमेतकम् ।। ५३७ ।। स्वाम्यस्य कुट्यतामेष य एनं न निषेधति । भृत्यानामपराधे हि भर्तुर्दण्ड इति स्थितिः ।। ५३८ ।। हित्वागस्यपि गोशालं शालावृकमिवाथ ते । उदस्तदण्डाः श्रीवीरमभ्यढौकन्त दुर्धियः ।। ५३९ ॥ तत्रस्थव्यन्तरेणार्हद्गृह्येणाधिष्ठिता रुषा । साक्षात्सीरीव सीर्यर्योत्सीरोदस्थाच्च तद्गुहे ।। ५४० ॥ आशंकाविस्मयाकीर्णाः पतित्वा पादपद्मयोः । स्वामिनं क्षमयामासुस्ते ग्रामीणाः स्वनिन्दिनः ।। ५४१ ।। ततश्च प्रययौ स्वामी चोराके सन्निवेशने । तत्रैकत्र रहःस्थाने तस्थौ च प्रतिमाधरः ।। ५४२ ।। गोशालो नाथमित्यूचे गन्तव्यं चर्यया न वा ? । सिद्धार्थोऽभिदधेऽस्माकमुपवासोऽद्य वर्तते ।। ५४३ ॥ गोशालः क्षुधितोऽविक्षद् ग्रामे भिक्षार्थमुत्सुकः । गोष्ठीभक्तं तदा तत्र राध्यमानं ददर्श च ।। ५४४ ॥ १ द्भक्तेनाधि ।
܀܀܀
दशमं पर्व
तृतीयः सर्गः
श्रीमहावीरजिनचरितम् ।
उपसर्गवर्णनम् ।
॥८३॥