________________
त्रिषष्टिशलाका
पुरुषचरिते
॥८२॥
माऽन्यथा जिनमाहात्म्यं भूदिति व्यन्तरामराः । तत्र सन्निहिताः सर्वं प्रदेशमदहंस्तकम् ।। ५१९ ॥ किंचित् स्थित्वा प्रभुरगाद् ग्रामं नाम्ना हरिद्रुकम् । बहिर्हरिद्रुवृक्षस्य तलेऽस्थात् प्रतिमाधरः ।। ५२० ॥ पत्रच्छायातपत्रस्य तले तस्यैव शाखिनः । तदाऽवात्सीन्महासार्थः श्रावस्ती नगरी गमी ।। ५२१ ।। स तु सार्थः शीतभीतो व्याघ्रभीत इवानलम् । नक्तमज्वालयत्प्रातरुत्थाय च ययौ पुरः ।। ५२२ ।। स प्रमादादशान्तोऽग्निर्व्याधिवत्प्रसरन् क्रमात् । आगादुपमहावीरमध्यंभोधीव वाडवः ।। ५२३ ।। एत्येष वह्निर्भगवन्नश्य नश्येत्यथ ब्रुवन् । काकनाशं प्रणश्यागाद्गोशालः शीघ्रमन्यतः ।। ५२४ ।। श्रुत्वापि तद्वचः स्वामी ध्यानानलमिवानलम् । तं कर्मेन्धनदाहाय मन्वानोऽस्थादतिस्थिरः ।। ५२५ ।। चरणौ स्वामिनस्तेन वह्निना श्यामलीकृतौ । हैमनेन तुषारेण पद्मकोशाविवाधिकम् ।। ५२६ ॥ शान्ते वह्नौ सगोशालो ग्रामेऽगाल्लांगलाभिधे । स्वाम्यस्थाच्च प्रतिमया वासुदेवनिकेतने ।। ५२७ ॥ क्रीडायातान् ग्रामडिम्भान् गोशालस्तत्र कौतुकी । प्रेतवद्विकृतं रुपं कृत्वाऽभीषयताभितः ।। ५२८ ।। भयात् केऽपि पतद्वस्त्राः स्फुटन्नासाश्च केचन । प्रस्खलद्गतयो नेशुर्ग्रामाभिमुखमर्भकाः ।। ५२९ ।। अभ्येत्य पितरस्तेषां गोशालं प्रेक्ष्य तादृशम् । अर्भान् किं त्रासयसीति जल्पन्तोऽकुट्टयन् भृशम् ।। ५३० ॥ तद्वृद्धाः स्वामिनं प्रेक्ष्य स्वानूचुर्मुच्यतामयम् । देवार्यस्यास्य संभाव्य एष शुश्रूषकः खलु ।। ५३१ ।।
१रं मध्यांभो । रं मध्येभो ।
२०
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
Fa
उपसर्गवर्णनम् ।
॥८२॥