________________
त्रिषष्टिशलाकापुरुषचरिते
॥ ८१ ॥
भोजनावसरे प्राप्ते गोशालः प्रभुमभ्यधात् । भिक्षार्थं भगवन्नेहि जन्मसारं हि भोजनम् ।। ५०६ ॥ सिद्धार्थः प्राग्वदित्यूचे हंहो वयमुपोषिताः । गोशालोऽपृच्छदथ स्यान्ममाहारोऽद्य कीदृशः ॥ ५०७ ॥ सिद्धार्थोऽप्याख्यदधुना नृमांसं भक्षयिष्यसि । गोशाल ऊचे तद्भोक्ष्ये मांसगन्धोऽपि यत्र न ।। ५०८ ॥ एवं निश्चित्य भिक्षायै श्रावस्तीं सोऽविशत्पुरीम् । इतश्च तस्यां नगर्यां पितृदत्तोऽवसद् गृही ।। ५०९ ।। श्रीभद्रा तत्प्रिया *निन्दुर्नैमित्तं शिवदत्तकम् । अपत्यं मे कथं जीवेदित्यपृच्छत् कृतादरा ।। ५१० ।। सोऽप्याचख्यौ जातमृतं पिष्ट्वा सासृक्पलं शिशुम् । क्षीरेण पायसीकृत्य सर्पिर्मधुसमन्वितम् ।। ५११ ।। यद्युद्धूलितपादाय भोक्तुं दत्से सुभिक्षवे । तज्जीविष्यन्त्यपत्यानि नूनं नश्यत्प्रसूतिके ! ।।५१२ ।। ।। युग्मम् ॥ भुक्त्वा तत्र गते गेहद्वारं कार्यं त्वयान्यथा । ज्ञात्वा तद्भोजनं क्रुद्धो मा धाक्षीत्स गृहं तव ॥ ५१३ ।। मृतार्थं पायसीचक्रे स्वं तथैव सुतार्थिनी । गोशालायागतायाऽदात्तदानीं भक्तितश्च सा ।। ५१४ ।। मुक्त्वा च गत्वा स्वाम्यग्रेऽवोचद्भ्रान्तश्चिरादसि । सिद्धार्थोऽप्याख्यदेतस्मै पायसं तत्तथा कृतम् ॥। ५१५ ।। वाम तत्तु गोशालो मुखे क्षिप्त्वा निजांगुलीम् । नखाद्यवयवांस्तत्र ददर्श च चुकोप च ।। ५१६ ।। ययौ तद्वेश्म चान्वेष्टुं तद्द्वारे त्वन्यथा कृते । नाज्ञासीत्तत्तु गोशालो गोपाल इव लक्षणम् ।। ५१७ ।। ततोऽप्युवाच गोशालस्तपस्तेजश्च मद्गुरोः । यदि तद्दह्यतामेष प्रदेशः सकलोऽपि हि ।। ५१८ ।।
टि. *निन्दुः मृतापत्यजनयित्री
*
दशमं पर्व तृतीयः
सर्ग
श्रीमहावीर
जिनचरितम् ।
| उपसर्गवर्णनम् ।
॥८१॥