________________
| दशमं पर्व
त्रिषष्टिशलाका
| तृतीयः
पुरुषचरिते
||८०॥
| सर्गः
श्रीमहावीर| जिनचरितम् ।
तस्य देवकुलस्यैककोणे तस्थौ समाहितः । तत्स्तम्भ इव निष्कम्पः कायोत्सर्गधरः प्रभुः ।। ४९२ ।। माघमासे तदा रात्रौ शीतमासीत् सुदुस्सहम् । तेषां पाखण्डिनां देवकुले चाभून्महोत्सवः ॥ ४९३ ॥ ते पुत्रादिपरीवारास्तस्मिन्नायतने मुदा । तदा संभूय ननृतुर्जगुः परिजजागरुः ।। ४९४ ।। हसन्नूचेऽथ गोशालः पाखण्डाः केऽप्यमी बत । येषां पल्यो मद्यपानं गीतनृत्तादि चोच्चकैः ।। ४९५ ।। तच्छुत्वा कुपितास्तेऽपि सारमेयमिवालयात् । कण्ठे गृहीत्वा गोशालं तत्कालं निरसारयन् ।। ४९६ ।। शीतसंकुचितांगोऽस्थाद्गोशालोऽथ हकारवत् । वादयन्दन्तपंक्तिं च वैणिको वल्लकीमिव ।। ४९७ ॥ गोशालं सानुकम्पास्ते तत्र प्रावेशयन् पुनः । सोऽपशीतो मुहूर्तेन तथैव पुनरभ्याधात् ।। ४९८ ॥ स तैर्निःसारितो भूयो भूयश्चापि प्रवेशितः । एवं कोपकृपाभ्यां ते तस्य त्रिरिति चक्रिरे ।। ४९९ ।। तुर्यवारेऽथ गोशालः प्रविष्येऽप्यब्रवीदिति । सद्भूतार्थाभिधानेऽपि को वः कोपोऽल्पमेधसाम् ।। ५०० ॥ निजाय दुश्चरित्राय पाखण्डाः किं न कुप्यथ ? | स्फुटार्थवादिनेऽमुष्मै मह्यं द्रुह्यथ किं मुहुः ।।५०१ ॥ उत्तिष्ठतोऽथ पाखण्डयूनस्तत्कुट्टनेच्छया । निवारयन्तस्तवृद्धा एवमभ्यधुरुच्चकैः ।। ५०२ ।। देवार्यस्य तपोराशेः कोऽप्यमुष्य महात्मनः । पीठधारश्छत्रधारोऽपरो वा स्यादुपासकः ॥ ५०३ ॥ अनेन भाषितेनाऽलं भाषतां स्वेच्छयाप्यसौ । श्रोतुं चेन्न क्षमास्तद्भोः कुरुध्वं वाद्यवादनम् ।। ५०४ ॥ तथैव चक्रिरे तेऽपि जातेऽथ तपनोदये । श्रावस्ती स्वाम्यगात्तस्थौ बहिश्च प्रतिमाधरः ॥ ५०५ ॥
उपसर्गवर्णनम् ।
I coll