________________
त्रिषष्टिशलाका
पुरुषचरिते
॥७९॥
प्रतिचक्रभयात्तत्रारक्षैश्चौरगवेषिभिः । कायोत्सर्गस्थितः स्वामी सगोशालोऽप्यदृश्यत ॥ ४७८ ॥ ब्रूहि कोऽसीति तैः पृष्टः स मौनाभिग्रहः प्रभुः । न किञ्चिदभ्यधाद्वाचंयमा हि बधिरा इव ।। ४७९ ॥ कस्यापि हेरिको ह्येष नूनं यन्मौनभागसौ । स्वामिनं ते सगोशालं जगृहुः क्रूरबुद्धयः ।। ४८० । गोशालं शाकिनीवत्ते बद्ध्वा कूपे निचिक्षिपुः । मुहुर्घटीवद्विदधुर्यंचनोदंचनानि च ।। ४८१ ।। पार्श्वशिष्ये उत्पलस्य जामी सोमाजयन्तिके । साधुवर्यौ परिव्राजौ चोराकेऽवसतां तदा ।। ४८२ ।। ग्रूप नरौ कचित् क्षेपणोत्क्षेपणैर्जले । आरक्षैः पीड्यमानौ स्तस्ते इत्यश्रृणुतां जनात् ।। ४८३ ।। छद्मस्थश्चरमतीर्थकरोऽसौ नु भवेदिति । उपेत्य ते क्षणान्नाथं तथावस्थमपश्यताम् ।। ४८४ ।। आरक्षानूचतुश्चैवं किं रे मूर्खा मुमूर्षवः ! । न जानीथ प्रभुममुं सिद्धार्थनृपनन्दनम् ।। ४८५ ।। ते भीताः स्वामिनं मुक्त्वा नत्वा चाक्षमयन्मुहुः । महान्तो हि न कुप्यन्ति क्षम्यन्ते त्वात्मशंकितैः ॥ ४८६ ॥ दिनानि कतिचित्तत्रातिवाह्य परमेश्वरः । तुर्यां प्रावृषमत्येतुं पृष्ठचम्पां पुरीं ययौ ।। ४८७ ॥ चर्तुमासक्षपणकृद्विविधप्रतिमाधरः । चतुर्मासी जगन्नाथस्तत्र तस्थाववस्थितः ।। ४८८ ।। चतुर्मास्यन्तदिवसे पारयित्वा बहिः कवचित् । जगाम त्रिजगन्नाथो नगरं कृतमंगलम् ॥ ४८९ ॥ दरिद्रस्थविराभिख्याः सारम्भाः सपरिग्रहाः । सकलत्राः ससन्तानास्तत्र पाखण्डिनोऽवसन् ।। ४९० ।। मध्ये तत्पाटकस्यासीदेकं देवकुलं महत् । तेषां कुलक्रमायातदेवताप्रतिमांकितम् ॥ ४९१ ।।
শ
दशमं पर्व तृतीयः सर्गः
श्रीमहावीरजिनचरितम् ।
उपसर्गवर्णनम् ।
।।७९ ।।