________________
दशमं पर्व | तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
७८॥
सर्गः
श्रीमहावीरजिनचरितम् ।
शुभध्यानादचलिता वेदनां तां सहिष्णवः । सद्यो जातावधिज्ञाना मृत्वाऽऽचार्या दिवं ययुः ॥ ४६५ ।। तेषामुपरि पुष्पाणि प्रत्यूषपवना इव । प्रवर्षन्तो महिमानमासन्नव्यन्तरा व्यधुः ॥ ४६६ ॥ इतोऽपि स च गोशालो विद्युन्मालामिवाम्बरे । तेजोरुपां देवपंक्तिं दृष्ट्वाऽऽचख्यौ इति प्रभोः ।।४६७ ॥ स्वामिस्त्वत्प्रत्यनीकानां दह्यते किं प्रतिश्रयः । व्योम्ना ज्वालाकुलेनानुमीयतेऽदः प्रदीपनम् ।। ४६८ ॥ सिद्धार्थोऽप्यभ्यधान्मैवमभ्यधास्ते हि सूरयः । दिवं गताः शुभध्यानाच्छुभध्यानं हि कामधुक ॥४६९ ॥ तेषां कर्तुं महिमानमेते तेजोमयाः सुराः । यैस्ते प्रदीपनभ्रान्तिरुत्पन्ना स्वल्पमेधसः ॥ ४७० ।। तद् द्रष्टुं कौतुकात्तत्र गोशालः प्रययौ द्रुतम् । स्वस्थानं च ययुर्देवाः क्वेदृशां देवदर्शनम् ।। ४७१ ॥ पुष्पगन्धाम्बुवृष्टि स तत्र दृष्ट्वा प्रमोदभाक् । गत्वा प्रतिश्रये सुप्तांस्तच्छिष्यानभ्यधादिति ।। ४७२ ।। किं भवन्तो दुष्टशिष्या मुण्डा भिक्षां यदृच्छया । भुक्त्वा दिने निशां सर्वां शेरतेऽजगरा इव ॥ ४७३ ॥ न हीदमपि जानीथ यत्सूरिः प्राप पञ्चताम् । गुरुषु प्रतिबन्धोऽयमहो वः कुलजन्मनाम् ।।४७४ ।। उत्तस्थुस्तेऽपि तच्छब्दात् पिशाच इव को न्वसौ । एवं शब्दायत इति चिन्तयन्तो महर्षयः ।। ४७५ ।। तेऽथ जग्मुरुपाचार्यमाचार्य प्रेक्ष्य तं तथा । चिरं निनिन्दुरात्मानं कुलीना इव नन्दनाः ॥ ४७६ ।। तान् गोशालोऽपि निर्भय॑ स्वेच्छालापविदूषकः । इयाय नाथं नाथोऽपि चोराकेऽगान्निवेशने ॥ ४७७ ॥
उपसर्गवर्णनम् ।
७८॥
१०भिघा।