________________
त्रिषष्टिशलाका
पुरुषचरिते
1199 ||
सोऽपश्यत्पार्श्वशिष्यांस्तान् विचित्रवसनावृतान् । पात्रादिधारिणः के नु यूयमित्यन्वयुक्त चं ॥ ४५२ ।। निर्ग्रन्थाः पार्श्वशिष्याः स्मो वयमित्यूचिरेऽथ ते । गोशालोऽपि हसन्नूचे धिग्वो मिध्याभिभाषिणः ।। ४५३ ।। कथं नु यूयं निर्ग्रन्था वस्त्रादिग्रन्थधारिणः । केवलं जीविकाहेतोरियं पाखंडकल्पना ।। ४५४ ॥ वस्त्रादिसंगरहितो निरपेक्षो वपुष्यपि । धर्माचार्यो हि यादृङमे निर्ग्रन्थास्तादृशाः खलु ।। ४५५ ।। ते जिनेन्द्रमजानन्तः प्रत्युचुर्यादृशो भवान् । धर्माचार्योऽपि ते तादृगात्तलिंगः स्वयं किमु ।। ४५६ ।। क्रुधा चुक्रोश गोशालो मम धर्मगुरोर्यदि । तपस्तेजोऽस्ति तदयं दह्यतां व उपाश्रयः ।। ४५७ ।। तेऽप्यब्रुवंस्त्वद्वचनान्न हि दह्यामहे वयम् । गोशालोऽपि विलक्षः सन् गत्वा स्वामिनमभ्यधात् ॥ ४५८ ॥ दृष्टा मयाऽद्य सग्रन्था निन्दन्तो वस्तपस्विनः । दह्यतामाश्रमोऽसावित्याक्रुष्टं च रुषा मया ।। ४५९ ।। तथापि नाश्रयस्तेषामदह्यत मनागपि । तत्र किं कारणं ? स्वामिन्नाख्याहि परमार्थतः ।। ४६० ॥ सिद्धार्थोऽप्यवदच्छिष्याः श्रीपार्श्वस्वामिनो हि ते । तेषामुपाश्रयो हन्त त्वद्गिरा दह्यते कथम् ? || ४६१ ।। अत्रान्तरे निशा जज्ञे मुनिचन्द्राख्यसूरयः । उपाश्रयाद्द्हिर्भूत्वा तस्थुः प्रतिमया तदा ।। ४६२ ।। स च कूपनयः श्रेणिभक्ते पीतसुरो बहिः । मत्तो घूर्णन् समागच्छन्नाचार्यांस्तानुदैक्षत ।। ४६३ ॥ आचार्यांश्चौरबुद्ध्या तान् गृहीत्वा निर्दयं गले । निरुच्छ्वासीचकाराशु कुम्भकारो दुराशयः ।। ४६४ ।।
१ सः ।
दशमं पर्व तृतीयः
सर्गः श्रीमहावीरजिनचरितम् |
उपसर्ग
वर्णनम् ।
119011