________________
त्रिषष्टिशलाकापुरुषचरिते
७६॥
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिन
चरितम् ।
निष्क्रम्य स्वाम्यगाद् ग्रामे पत्रकालेऽभिधानतः । प्राग्वच्चास्थाच्छून्यगृहे निशायां प्रतिमाधरः ।। ४३९ ।। भयान्निलीय गोशालः कोणेऽस्थात्तत्र वेश्मनि । रन्तुं दन्तिलया दास्याऽऽगात् स्कन्दो ग्रामणीसुतः ॥ ४४० ॥ सिंहवढ्याहरत् सोऽपि न च कोऽप्युत्तरं ददौ । क्रीडित्वा निर्ययौ स्कन्दो गोशालोऽहसदुच्चकैः ।। ४४१ ।। छन्नः पिशाचवस्थित्वा हसत्युच्चैस्तु कोऽन्विति । जल्पस्तं कुट्टयामास स्कन्दोऽगादथ वेश्मनि ॥४४२ ।। गोशालोऽप्यब्रवीन्नाथं स्वामिधर्मः किमेष ते । निर्दोषं हन्यमानस्य त्राणं मे कुरुषे न यत् ? || ४४३ ।। सिद्धार्थः पुनरुचे तं भो मूर्खवमनेकशः । अनर्थं मुखदोषेण त्वं तित्तिरिरिवाश्नुषे ।। ४४४ ।। कुमारसन्निवेशेऽगाद्भगवानथ तत्र च । चंपकरमणीयाख्योद्यानेऽभूत् प्रतिमाधरः ।। ४४५ ।। तत्र चासीद्धनधान्यऋद्धः कूपनयाह्नयः । कुलालः प्रियमदिरो मदिराकीटवत्सदा ।। ४४६ ।। तच्छालायां पार्श्वनाथशिष्यः शिष्यगणावृतः । बहुश्रुतो मुनिचन्द्राचार्य आसीत्तदा स्थितः ।। ४४७ ।। शिष्यं गच्छे स्थापयित्वा स सूरिर्वर्धनाभिधम् । जिनकल्पप्रतिकर्म विदधेऽत्यन्तदुष्करम् ।। ४४८ ।। तपःसत्त्वसूत्रैकत्वबलानां तुलनाभिदाम् । भावयन् स्वं द्वितीयया सोऽन्यदाऽस्थात्समाहितः ।। ४४९ ॥ इतश्चोवाच गोशालो नाथं मध्यन्दिनक्षणे । समयो वर्तते यामो भिक्षायै ग्राममध्यतः ।। ४५० ॥ सिद्धार्थोऽथाब्रवीदद्य वर्तामहे उपोषिताः । गोशालस्त्वविशद् ग्रामे भिक्षाहेतोर्बुभुक्षितः ।। ४५१ ॥
उपसर्गवर्णनम् ।
७६॥