________________
त्रिषष्टिशलाका
पुरुषचरिते
॥७५ ।।
स्वामी च प्रययौ चम्पां वर्षारात्रं तृतीयकम् । तत्र चाऽस्थात् प्रतिज्ञातद्विमासक्षपणद्वयः ।। ४२६ ।। कायोत्सर्गेणोत्कटिकादिभिस्तैस्तैरथासनैः । तस्थौ मुक्त इवेहापि स्वामी सम्यक्समाधिभृत् ॥ ४२७ ॥ बहिः पुर्या द्वितीयं द्विमासक्षपणपारणम् । कृत्वा स्वामी सगोशालः कोल्लाकेऽगान्निवेशने ॥ ४२८ ॥ नक्तं तत्र गृहे शून्ये तस्थौ प्रतिमया प्रभुः । तद्द्वारेऽस्थातु गोशालो लीत्वा कपिरिवाऽस्थिरः ।। ४२९ ।। तदा ग्रामेशतनयः सिंहोऽभिनवयौवनः । विद्युन्मत्या समं दास्या रिरंसुस्तत्र चाविशत् ।। ४३० ॥ सोऽवोचदुच्चकैरेवं योऽत्रास्ति श्रमणो द्विजः । पान्थो वापि स आख्यातु यामो येनान्यतो वयम् ॥ ४३१ ॥ कायोत्सर्गप्रपन्नत्वात्तूष्णीकः स्वाम्यभूत्तदा । तत्तु श्रुत्वापि गोशालः कपटान्नोत्तरं ददौ ॥ ४३२ ॥ अलब्धप्रतिवाक् सिंहश्चित्रं रेमे तया सह । क्षणं स्थित्वा च निर्गन्तुं प्रावर्तत ततो गृहात् ।। ४३३ ।। गोशालो द्वारदेशस्थः प्रकृत्या दुर्मतिश्चलः । विद्युन्मतीं विनिर्यान्तीं दासीं पस्पर्श पाणिना ।। ४३४ ॥ स्वामिन् ! स्पृष्टास्मि केनापीत्युच्चकैर्व्याजहार सा । वलित्वा कुपितः सिंहो धृत्वा गोशालमब्रवीत् ॥ ४३५ ॥ अरे रे छद्मना छन्नः स्थित्वाऽनाचारमावयोः । पश्यन्नस्था भाषितोऽपि तदा नादास्त्वमुत्तरम् ॥ ४३६ ॥ इत्युक्त्वा कुट्टयित्वा तं सिंहः स्वस्थानमभ्यगात् । गोशालः स्वामिनं स्माह पश्यतां वो हतोऽस्म्यहम् ॥ ४३७ ॥ सिद्धार्थोऽथावदच्छीलमस्मद्वत्किं न रक्षसि । आचरंश्चापलं चैवं द्वारस्थः किं न कुट्यसे ? ।। ४३८ ॥
१५ ।
दशमं पर्व तृतीयः सर्गः
श्रीमहावीर
जिनचरितम् ।
उपसर्गवर्णनम् ।
॥७५॥