________________
त्रिषष्टिशलाका
पुरुषचरिते ॥७२॥
गोशाल भिक्षया प्राणवृत्तिं कुर्वन् दिवानिशम् । नामुञ्चत् स्वामिनः पार्श्वं स्वबुद्ध्या शिष्यतां गतः ॥ ३८७ ॥ द्वितीयम सक्षपणे स्वामी वेश्मन्युपागतः । आनन्देन गृहस्थेन खाद्यकैः प्रत्यलाभ्यत ।। ३८८ ॥ तृतीयमासक्षपणे सुनन्दगृहिणा प्रभुः । सर्वकामगुणाख्येनाहारेण प्रत्यलाभ्यत ।। ३८९ ।। गोशालकोऽपि भैक्षेण कुक्षिपूरणतत्परः । भगवन्तं महावीरमसेवत दिवानिशम् ।। ३९० ।। प्राप्तायामूर्जराकार्यां गोशालो हृद्यचिन्तयत् । ज्ञान्येष श्रूयत इति परीक्षे ज्ञानमस्य हि ।। ३९१ ।। जायमाने प्रतिगृहं वार्षिकेऽस्मिन् महोत्सवे । भिक्षायां किमहं लप्स्ये स्वामिन्नाख्याहि मेऽधुना ।। ३९२ ।। सिद्धार्थः स्वामिसंक्रान्तो बभाषे भद्र ! लप्स्यसे । धान्याम्लं कोद्रवकूरमेकं कूटं च रुपकम् ॥ ३९३ ॥ तदाकर्ण्य च गोशालो दिनारम्भात्प्रभृत्यपि । विशिष्टभोजनाभ्यर्थी श्वेवाभ्राम्यद् गृहे गृहे ॥ ३९४ ॥ तथापि कुत्रचित् किंचिन्न कथञ्चिदवाप सः । श्रान्तोऽपराह्ने केनापि निन्ये कर्मकृता गृहे ।। ३९५ ।। धान्याम्लकोद्रवकूरे दत्ते तेनापि सोऽपि ते । बुभुजेऽतिक्षुधा लेभे दक्षिणायां च रुपकम् ॥ ३९६ ॥ परीक्षिते रुपकेऽपि कूटे सति स लज्जितः । यद्भावि तद्भवतीति नियतिवादमग्रहीत् ।। ३९७ ।। दीक्षातः प्रावृषं स्वामी द्वितीयामतिगम्य ताम् । नालन्दाया निरीयाऽगात् कोल्लाके सन्निवेशने ।। ३९८ ।। तदा च बहुलो नाम विप्रो विप्रानभोजयत् । महादरेण स्वगृहे भिक्षार्थी चाययौ प्रभुः ।। ३९९ ॥ टि. * 'खाजा' इति गुर्जरभाषायाम् । एतन्नामकेन आहारेण । ** कार्तिकस्य पूर्णमास्याम् ।
दशमं पर्व तृतीयः
सर्गः
श्रीमहावीर
जिनचरितम् ।
विविधोपसर्ग
वर्णनम् ।
।।७२ ।।