________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥७१॥
तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
प्राप्ते शरवणग्रामे सुभद्राऽसूत चान्यदा । द्विजाते!बहुलस्य गोशालायां तनूरुहम् ।। ३७४ ।। स गोशालाप्रसूतत्वाद्गोशाल इति संज्ञितः । क्रमादुद्यौवनो मंखशिल्पमभ्यस्तवान्निजम् ।। ३७५ ।। निसर्गतः कलिकरः पित्रोरप्यवशंवदः । निर्लक्षणो जन्मतोऽपि सोऽभूत्कूटविचक्षणः ।। ३७६ ॥ पितृभ्यां कलहं कृत्वा गृहीत्वा चित्रपट्टिकाम् । भ्राम्यन् भिक्षां स एकाकी ययौ राजगृहेऽन्यदा ।। ३७७ ।। स्वामिनाऽलंकृते शालाकोणे तत्रानुमान्य तम् । गोशालोऽप्यवसत्सिहसन्निधाविव जम्बुकः ।। ३७८ ॥ नाथोऽपि मासक्षपणपारणस्य विधित्सया । विजयश्रेष्ठिनो वेश्म प्राविशत्पाणिभाजनः ।। ३७९ ।। भक्त्या महत्या विजयश्रेष्ठी श्रेष्ठमतिः स्वयम् । सम्यग्भोजनविधिना स्वामिनं प्रत्यलाभयत् ।। ३८० ।। अहो दानं सुदानं चेत्युच्चैराघोषिणोऽमराः । रत्नवृष्ट्यादिदिव्यानि तद्गृहे पञ्च चक्रिरे ।। ३८१ ।। आकर्ण्य तत्तु गोशालोऽचिन्तयद्यदयं मुनिः । न सामान्योऽस्यान्नदातुर्गृहे श्रीर्यदभूदियम् ।। ३८२ ।। विहाय चित्रफलकपाखण्डं तदमुं निजम् । अस्य शिष्यीभवाम्यद्य निःफलो नेदृशो गुरुः ।। ३८३ ।। तत्रैवं चिन्तयत्येव पारियत्वा जगद्गुरुः । एत्य तत्रैव शालायामस्थात्प्रतिमया प्रभुः ।। ३८४ ।। गोशालः स्वामिनं नत्वोवाच वाचंयमस्य ते । मया प्रभावो नाज्ञायि विज्ञेनापि प्रमादतः ।।३८५ ॥ शिष्यस्तेऽहं भविष्यामि त्वमेकं शरणं मम । इत्युक्त्वा स तथा चक्रे तूष्णीकोऽस्थात्प्रभुः पुनः ॥३८६ ॥
गोशालस्य मिलनम् ।
७१॥
१ मेकः ।