________________
त्रिषष्टिशलाकापुरुषचरिते
॥७ ॥
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
अथ द्रुतमुपैत्येन्द्रो जिनेन्द्रं प्रतिमास्थितम् । अवन्दत महाऋद्धया तस्य पुष्पस्य पश्यतः ।। ३६१ ।। शक्रः पुष्पं बभाषे च किं नु शास्त्राणि निन्दसि । तत्कारकांश्च किं तैर्हि न मृषा भाषितं किल ।। ३६२ ।। बाह्यान्येव हि जानासि लक्षणान्यान्तराणि तु । स्वामिनः क्षीरधवले अविने मांसशोणिते ।।३६३ ।। मुखपंकजनिःश्वासः पंकजामोदसोदरः । निरामयं मलस्वेदवर्जितं च प्रभोर्वपुः ।। ३६४ ।। अयं हि त्रिजगन्नाथो धर्मचक्री जगद्धितः । विश्वाभयप्रदः स्वामी वीरः सिद्धार्थनन्दनः ॥३६५ ।। इन्द्राश्चतुःषष्टिरपि स्वामिनोऽस्य पदातयः । कियन्मात्रं चक्रिणस्ते येभ्यः फलमभीप्ससि ।।३६६ ।। दत्त्वाऽसौ वार्षिकं दानं तितीर्घर्भवसागरम् । त्यक्तराज्यः परिव्रज्य विहरत्येवमश्रमः ।। ३६७ ।। शास्त्राणि संवदन्त्येव मा विषीद मनागपि । ददाम्यभीप्सितं ते च न मुधा स्वामिदर्शनम् ।। ३६८ ।। इत्युक्त्वाऽभीप्सितं तस्मै दत्वा च त्रिदशेश्वरः । नमस्कृत्य जगन्नाथं यथास्थानं पुनर्ययौ ।। ३६९ ।। कायोत्सर्ग पारयित्वा विहरन् भगवानपि । पादन्यासैः पुनानः मां प्राप राजगृहं पुरम् ।। ३७० ॥ पुरस्यादूरतस्तस्य नालंदाया बहिर्भुवि । विशाला स्वाम्यगाच्छालां तन्तुवायस्य कस्यचित् ।। ३७१ ॥ तन्तुवायमनुज्ञाप्य वर्षा वस्तुं जगद्गुरुः । शालाया एकदेशेऽस्थान्मासक्षपणमाश्रितः ।। ३७२ ।। इतोऽभून्मंखलिमखो भद्रा तस्य च गेहिनी । उभौ विजहतुः पृथ्वीं दधानौ चित्रपट्टिकाम् ॥३७३ ।। टि.- *चित्रफलकेन यः स्वां आजीविकां करोति ।
पुष्पसामुद्रिक वृत्तान्तः ।
&
७०॥