________________
त्रिषष्टिशलाका
पुरुषचरिते
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
॥६९॥
सूक्ष्मान्मृत्तिके गंगासैकते पदपद्धतिः । चक्रादिलाञ्छिता भर्तुरभूद् भूभूषणं स्फुटा ।।३४८ ।। सामुद्रलक्षणाभिज्ञः पुष्पो नाम ददर्श ताम् । एवं च दध्यौ कोऽप्येष एकाकी चक्रवर्त्यगात् ।।३४९ ॥ अद्याप्यप्राप्तराज्यो वा हृतो वा केनचिच्छलात् । मन्ये संप्रत्यसौ याति तं सेवे सेवकैषिणम् ।।३५० ॥ असावस्यामवस्थायां सेवितः फलदः खलु । सेव्यस्य सेवावसरः पुण्येनैव हि लभ्यते ॥३५१ ।। ध्यात्वेत्यनुपदं सोऽगात् स्थूणाके सन्निवेशने । अधोऽशोकस्य चापश्यत्प्रभुं प्रतिमया स्थितम् ।। ३५२ ॥ श्रीवत्सलाञ्छितं वक्षः शिरोऽप्युष्णीषलाञ्छितम् । चक्रादिलाञ्छितौ पाणी भुजौ 'भुजगराण्निभौ ।। ३५३ ।। दक्षिणावर्तगंभीरशुषिरं नाभिमंडलम् । लोकोत्तराणि लक्ष्माणि प्रभोरेवं ददर्श सः ।।३५४ ।। एवं चाचिन्तयत् पुष्पो यथाऽयं पादलक्षणैः । लोकोत्तरस्तथान्यैरप्यसौ चक्रीति सूच्यते ।। ३५५ ।। अप्येभिर्लक्षणैरेष भिक्षुरित्यस्मि विस्मितः । धिङ् मे शास्त्रश्रमं धिङ्मामस्मिन्नाशाविधायिनम् ॥३५६ ॥ प्रतारणाय विश्वस्य स्वस्य कौतूहलाय वा । अनाप्तैरैव शास्त्राणि विहीतानीति मन्यते ।। ३५७ ॥ तेषां वाचा निबद्धाशो धावितोऽस्मि मुधैव हि । मृगतृष्णाजलायेव हरिणो मरुमंडले ॥३५८ ॥ एवं विमृश्य पुष्पोऽधाद्विषादमधिकं हृदि । तदा चाचिन्तयच्छकः कथं विहरति प्रभुः ।।३५९ ॥ अपश्यच्चावधिदृशा स्थूणाके स्वामिनं स्थितम् । तं च नैमित्तिकं पुष्पं विषादाच्छास्त्रदूषकम् ॥३६० ।। टि.! *भगवतः मस्तकोपरि द्वादशांगुलः उच्चः प्रदेशः । * शेषनागः ।।
पुष्प| सामुद्रिकवृत्तान्तः ।
||६९॥