________________
त्रिषष्टिशलाका
पुरुषचरिते
॥६८॥
एतौ पापात्मनोक्षाणौ प्राणेभ्योऽपि प्रियौ मम । मामनापृच्छ्य नयता नीतौ केनेदृशीं दशाम् ।। ३३४ ।। श्रेष्ठिनो मित्रवृत्तान्तमाख्यत् परिजनोऽखिलम् । खेदं श्रेष्ठ्यपि सोदर्यविपदीवासदद् भृशम् ।। ३३५ ।। तौ वृषावप्यनशनं कर्तुकामौ विवेकिनौ । न मनाग्जघ्रतुरपि श्रेष्ठिदत्ते तृणाम्भसी ।। ३३६ ।। ततश्चाढौकयच्छ्रेष्ठी स्थालमाढ्यान्नपूरितम् । संभावयामासतुस्तद् दृशापि हि न तौ वृषौ ।। ३३७ ।। भावं ज्ञात्वा तयोर्भक्तप्रत्याख्यानमदत्त सः । तावपि प्रतिपेदाते साभिलाषौ समाहितौ ॥ ३३८ ॥ तयोश्च कृपया श्रेष्ठी स्वयं त्यक्तान्यकर्मकः । नमस्कारान् ददत्तस्थौ बोधयंश्च भवस्थितिम् ।। ३३९ ।। शृण्वन्तौ तौ नमस्कारान् भावयन्तौ भवस्थितिम् । समाधिना मृतौ नागकुमारेषु बभूवतुः ।। ३४० ॥ अथ कंबल शबलाववधेस्तावपश्यताम् । क्रियमाणं सुदाढेन स्वामिनस्तमुपद्रवम् ।। ३४१ ।। कृतमन्येन कृत्येन कृत्यमेतद्यदर्हतः । उपसर्गं निषेधावो ध्यात्वैवं तावुपेयतुः ॥ ३४२ ॥ एकः प्रववृते योद्धुं सुदाढेनाहिना सह । द्वितीयः पाणिनोत्पाट्य निन्ये नावं नदीतटे ।। ३४३ ॥ महर्द्धिकोऽपि सुदाढ आयुः प्रान्ते गलद्बलः । ताभ्यां नूतनदेवत्ववैभवाभ्यामजीयत ।। ३४४ ॥ नंष्ट्वा सुदंष्ट्रः प्रययौ तौ च नागकुमारकौ । नत्वा प्रभौ ववृषतुः पुष्पगन्धोदके मुदा ।। ३४५ ।। नद्या इवापदोऽमुष्या उत्तीर्णास्त्वत्प्रभावतः । इति ब्रुवाणा नौलोका भक्त्या वीरं ववन्दिरे ।। ३४६ ॥ प्रभुं नत्वेयतुर्नागौ तर्या उत्तीर्य च प्रभुः । यथावदैर्यापथिकीं प्रतिक्रम्यान्यतोऽचलत् ।। ३४७ ।।
दशमं पर्व तृतीयः
सर्गः श्रीमहावीर
जिनचरितम् ।
सुदाढासुरकृत उपसर्गः ।
||६८ ॥