________________
त्रिषष्टिशलाका
पुरुषचरिते ॥६७॥
तृणादिकं दीयमानमपि तत्र दिने यदा । न वृषौ बुभुजाते तौ तदा श्रेष्ठीत्यचिन्तयत् ।। ३२२ ।। मयानुकम्पया पुष्टावियत्कालं वृषाविमौ । अतः परं पोषणीयौ बन्धू साधर्मिकाविति ॥ ३२३ ॥ तयोर्वृषभयोरेवं बहुमानं विशेषतः । चक्रे दिने दिने श्रेष्ठी न हि तौ तद्धिया पशू ॥ ३२४ ॥ भंडीरवणयक्षस्य जज्ञे यात्रोत्सवोऽन्यदा । वाहनानां वाहकेली चारेभे ग्रामदारकैः ॥ ३२५ ॥ वयस्यो जिनदासस्य कौतुकी तौ वृषावुभौ । अनापृच्छ्य गृहीत्वाऽगात् स्नेहे ह्यद्वैतमानिता ।। ३२६ ॥ कुक्कुटाण्डाविव श्वेतौ सदृक्षौ युग्मजाविव । कन्दुकाविव वृत्तांगौ चामरोपमवालधी ।। ३२७ ॥ उत्पतिष्णू इवौद्धुर्याद्वेगाद्वायोरिवात्मजौ । शकट्यां योजयामास तौ वृषौ श्रेष्ठिनः सुहृत् ॥ ३२८ ॥ ॥ युग्मम् ॥
तत्सौकुमार्यमविदन् प्राजनाराभिरीरयन् । चित्रीयमाणो लोकानां सोऽकृपस्ताववाहयत् ॥ ३२९ ॥ वाहकेलीकृतपणान् पौरान् सर्वाञ्जिगाय सः । ताभ्यामद्वैतरंहोभ्यां वृषभाभ्यां क्षणादपि ॥ ३३० ॥ आराच्छिद्रोच्छलद्रक्तप्लावितांगौ च तौ वृषौ । जातत्रोटयै श्रेष्ठिगृहे भूयो बद्ध्वा जगाम सः ।। ३३१ ।। भोजनावरे श्रेष्ठी स्वयं यवसपूलभृत् । तयोर्वृषभयोः पार्श्वे ययौ तनययोरिव ॥ ३३२ ॥ व्यात्तास्यौ निःसौ सास्रौ बहुश्वासौ सवेपथू । आरक्षतक्षरद्रक्तौ प्रेक्ष्य तावित्युवाच सः ।। ३३३ ॥
१ आरा।
दशमं पर्व
तृतीयः
सर्गः
श्रीमहावीर
जिनचरितम् ।
सुदाढासुरकृत उपसर्गः ।
॥६७॥