________________
त्रिषष्टिशलाकापुरुषचरिते
॥७३॥
| दशमं पर्व तृतीयः सर्गः
श्रीमहावीरजिनचरितम् ।
सशर्कराज्यक्षरेय्या स प्रभुं प्रत्यलाभयत् । चक्रुश्च पञ्च दिव्यानि तदोकसि दिवौकसः ।। ४०० ॥ चतुर्थमासक्षपणणरणं व्यधित प्रभुः । संसारतारणं दातु: श्रद्धातुरपि जन्मिनः ।। ४०१ ॥ इतश्च सायं गोशालः शाला हीणोऽविशच्छनैः । अपश्यन् स्वामिनं लोकान् क्व स्वामीत्यन्वयुक्त सः ।। ४०२ ।। स्वाम्युदन्तं न कोऽप्याख्यत् सोऽन्वेष्टुं स्वामिनं ततः । पर्याट सुचिरं दीनो नालन्दासन्निवेशने ॥ ४०३ ।। भूयो वराक एकाकी जातोऽस्मीति विचिन्त्य सः । मुण्डयित्वा शिरस्त्यक्तवस्त्रो निरगमत्ततः ।। ४०४ ।। गतश्च कोल्लाकेऽौषीद्धन्योऽयं बहुलो द्विजः । मुनौ दानाद्यस्य गृहे रत्नवृष्टिः सुरैः कृता ।। ४०५ ।। तच्छुत्वाऽचिन्तयत् सोऽपि प्रभावस्तस्य हीदृशः । मद्गुरोरेव नान्यस्य नूनमत्र स तिष्ठति ।। ४०६ ।। एवं विमृश्य सोऽन्वेष्टुं भ्राम्यन्निपुणया दृशा । ऐक्षिष्ट स्थितमेकत्र कायोत्सर्गधरं प्रभुम् ।।४०७॥ स प्रणम्य प्रभुं स्माह नाहं दीक्षोचितः पुरा । वस्त्रादिसंगादभवं त्यक्तसंगोऽस्मि संप्रति ।। ४०८ ॥ प्रतिपद्यस्व मां शिष्यं यावज्जीवं गुरुर्भव । त्वां विनेषदपि स्थातुं न क्षमः परमेश्वर! ।। ४०९ ।। नीरागे त्वयि कः स्नेहो नैकहस्ता हि तालिका । स्वामिन्मन्मनः किं तु बलात्त्वामनुधावति ॥ ४१० ।। त्वयाभ्युपगतं स्वं तु जानाम्येष तथापि हि । स्मेरारविन्दसध्रीच्या दृशा मां यन्निरीक्षसे ।। ४११ ॥ नीरागोऽपि भाव्यनर्थं तद्भवं च विदन्नपि । तद्वचः प्रत्यपादीशो महान्तः क्व न वत्सलाः ? || ४१२ ।। गोशालेन समं स्वर्णखलाख्यं सन्निवेशनम् । प्रत्यचालीत्प्रभुर्मार्गे युगमात्रप्रदत्तदृक् ।। ४१३ ॥
| उपसर्गवर्णनम् ।
॥७३॥