________________
त्रिषटिशलाकापुरुषचरिते
॥४९॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
| वसुदेव
पेटादिना सहादाय बालं नीत्वा च वेश्मनि । पुत्रत्वेनार्पयदिन्दोः स्वपल्या मुदितो वणिक् ।। ७४ ।। कंस इत्यभिधां तस्य चक्रतुस्तौ तु दंपती । वर्धयामासतुस्तं च मधुक्षीरघृतादिभिः ॥७५ ॥ स वर्धमानः कलहशीलो डिभानकुट्टयत् । एयुश्च लोकोपालंभा वणिजोः प्रत्यहं तयोः ।।७६ ॥ ततस्ताभ्यां दशवर्षः सेवकत्वेन सोऽर्पितः । वसुदेवकुमारस्य सोऽभूत्तस्याप्यतिप्रियः ॥७७ ॥ सोऽपठद्वसुदेवेन सहैव सकलाः कलाः । सममेव च चिक्रीड सममाप च यौवनम् ॥७८ ॥ वसुदेवकुमारश्च कंसश्च सहवर्तिनौ । एकराशिगतौ सौम्यभोमाविव विरेजतुः ॥७९ ॥ इतः शुक्तिमतीपुर्या नवमो वसुनंदनः । नंष्ट्वा नागपुरे योऽगात्तत्पुत्रोऽभूदुबृहद्रथः ।। ८० ।। पुरे राजगृहे सोऽगात्तत्र तत्संततावभूत् । जयद्रथो नाम नृपो जरासंघोऽस्य चात्मजः ।। ८१ ॥ प्रतिविष्णुः प्रचंडाज्ञस्त्रिखंडभरतेश्वरः । स दूतेनैवमादिक्षत् समुद्रविजयं नृपम् ॥ ८२ ॥ वैताठ्यपर्वताभ्यणे पुरे सिंहपुरे नृपम् । दुःसहं सिंहवत् सिंहरथं बद्ध्वा समानय ।। ८३ ।। तदानेतुश्च दास्यामि स्वां जीवयशसं सुताम् । अभीप्सितं किंचिदेकं पुरं च प्रवरर्द्धिकम् ।। ८४ ।। समुद्रविजयं नत्वा वसुदेवोप्ययाचत । तत्कर्तुं दुष्करमपि जरासंघस्य शासनम् ॥ ८५ ।। समुद्रविजयोऽप्यूचे न युद्धावसरस्तव । कुमार सुकुमारस्य तदलं यांचयानया ।। ८६ ।। १ बालान् । २ बुधमंगलग्रहौ । ३ बृहद्रथ इति प्रत्यंतरे पाठः । ४ संबोधनम् ।
कंसयोमिलनम् ।
|| ४९॥