________________
त्रिषष्टिशलाका
पुरुषचरिते ॥५०॥
1
भूयोऽपि वसुदेवेन निर्बंधाद्याचितो नृपः । बह्वीभिः सह सेनाभिः कथंचिद्विससर्ज तम् ।। ८७ ।। द्रुतं च वसुदेवोऽगादभ्यागात्सोऽपि संमुखः । राजा सिंहरथो युद्धं द्वयोश्च ववृते महत् ॥ ८८ ॥ व्यद्रावयत्सिंहरथो वसुदेवस्य तां चमूम् । वसुदेवः स्वयं योद्धुं डुढौके कंससारथिः ।। ८९ ।। युयुधाते ततश्चोभौ विविधैरायुधैश्चिरम् । सुरासुराविवामर्षादन्योऽन्यं जयकांक्षिणौ ।। ९० ।। हित्वाथ कंसः सारथ्यं परिघेण महीयसा । दृढं सिंहरथरथं मंक्ष्वभांक्षीन्महाभुजः ।। ९१ ।। कंसं हंतुं सिंहरथश्चकर्षासिं ज्वलन् क्रुधा । त्सरुदेशे क्षुरप्रेण वसुदेवश्चकर्त च ॥ ९२ ॥ छागं वृक इवोत्क्षिप्य बद्ध्वा सिंहरथं ततः । वसुदेवरथेऽक्षैप्सीत् कंसश्छलबलोत्कटः ।। ९३ । भने सिंहरथानीके वार्ष्णेयोऽपि ततो जयी । आदाय तं सिंहरथं क्रमेण स्वपुरं ययौ ।। ९४ ॥ वसुदेवं रहस्यूचे समुद्रविजयो नृपः । यज्ज्ञानी क्रोष्टुकिनामाचख्यौ मम हितं ह्यदः ।। ९५ ।। जरासंघस्य कन्येयं नाम्ना जीवयशा इति । अलक्षणा पतिपितृकुलक्षयकरी खलु ।। ९६ ।। जरासंघः सिंहरथानयने पारितोषिके । तां ते दास्यति तत्त्यागोपायः कोऽपि विभाव्यताम् ।। ९७ ।। प्रत्यूचे वसुदेवोऽपि कंसः सिंहरथं रणे । बद्ध्वानैषीत्ततस्तस्मै देया जीवयशाः खलु ।। ९८ ।। राजाप्यूचे वणिक्पुत्र इति तां न स लिप्सते । विक्रमात्क्षत्रिय इव परमेष विभाव्यते ।। ९९ ।। १ स्तरूः खड्गमुष्टिस्तस्य देशो हस्तस्य मणिबंधप्रदेशो मुष्टिर्वा तस्मिन् ।
अष्टमं पर्व | द्वितीयः सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
वसुदेवकंसयो
र्मिलनम् ।
॥ ५० ॥