________________
त्रिषष्टिशलाकापुरुषचरिते
॥५१॥
पत्रिका
या स्वपति
| अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अषतः
धर्म दत्वांतरे राज्ञा पृष्टोऽथ रसवाणिजः । कंसस्य श्रृण्वतोऽप्याख्यात् कंसवृत्तांतमादितः ।। १०० ।। ते उग्रसेनधारिण्या मुद्रिके पत्रिकामपि । समुद्रोऽथार्पयद्राज्ञे पत्रिका सोऽप्यवाचयत् ।।१०१ ।। उग्रसेनसधर्मिण्या धारिण्या दोहदादपि । भीतया स्वपति त्रातुं त्यक्तः प्राणप्रियः सुतः ।। १०२ ।। नाममुद्रासमेतोऽसौ सर्वाभरणभूषितः । क्षिप्त्वान्तः कांस्यमंजूषं यमुनायां प्रवाहितः ।। १०३ ।। वाचयित्वेति राज्ञोचे यादवोऽयं महाभुजः । औग्रसेनिरितरथा वीर्य स्यात्कथमीदृशम् ।। १०४ ।। कंसेन सह राजाथ जरासंघार्धचक्रिणे । गत्वार्पयत्सिहरथमथाख्यत् कंसविक्रमम् ।। १०५ ।। कंसायादाञ्जरासंघः स्वां जीवयशसं सुताम् । पुरीं च मथुरां तेन पितृरोषेण याचिताम् ।। १०६ ।। जरासंघार्पितबलो मथुरायामुपेत्य च । कंसो नृशंसः पितरं बद्ध्वा चिक्षेप पंजरे ।। १०७ ॥ उग्रसेनस्य चाभूवन्नतिमुक्तादयः सुताः । अतिमुक्तः पितृदुःखात् प्रव्रज्यामाददे तदा ॥ १०८ ।। आनाय्य शौर्यनगरात्सुभद्रं रसवाणिजम् । कृतज्ञमानी सच्चक्रे कंसः स्वर्णादिदानतः ।।१०९ ॥ अन्यदा धारिणी तूचे कंसं स्वपतिमुक्तये । कथंचिदपि तद्वाचा पितरं व्यमुचन्न सः ॥११०॥ मयायं कांस्यपेटायां क्षिप्त्वा नद्यां प्रवाहितः । नोग्रसेनो विवेदेदं निरागाः सर्वथा ह्यसौ ॥१११ ॥ सापराधाहमेवेह मोच्यतामेष मे पतिः । इत्यन्वहं कंसमान्यान् गृहेष्वेत्य जगाद सा ।।११२ ॥॥युग्मम् ।। १ अंतरे मध्ये धर्म दत्वा धर्मस्य शपथं दत्वेत्यर्थः । २ उग्रसेनस्यापत्यमौग्रसेनिः कंसः । ३ निरपराधी ।
| कंसेन | राज्यगृहणं, स्वपितरं पंजरे क्षेपणं च ।
॥५१॥