________________
| अष्टमं पर्व
द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥५२॥
सर्ग | श्रीअरिष्टनेमिजिनचरितम् ।
तेषामपि गिरा कंस उग्रसेनं मुचोच न । पूर्वजन्मनिदानं हि नान्यथा जातु जायते ।। ११३ ॥ जरासंघेन सत्कृत्य विसृष्टः स्वपुरं ययौ । राजा समुद्रविजयोऽप्यन्वितो भ्रातृभिर्निजैः ।। ११४ ॥ वसुदेवं शौर्यपुरे भ्रमन्तं सर्वदान्वयुः । मंत्राकृष्टा इव भृशं पौर्यः सौभाग्यमोहिताः ।। ११५ ॥ स्त्रैणकार्मणसौभाग्यः क्रीडयेतस्ततो भ्रमन् । निनाय कालं कमपि समुद्रविजयानुजः ।।११६ ॥ अन्येधुरेत्य राजानं रहस्यूचे महाजनः । वसुदेवस्य रूपेणामर्यादः स्त्रीजनोऽभवत् ।। ११७ ॥ वसुदेवं यैकदापि पश्येत्सा विवशैव हि । भूयो भूयः संचरन्तं याः पश्यति कथं तु ताः ॥ ११८ ॥ ईप्सितं वः करिष्यामीत्युक्त्वा तान् व्यसृजन्नृपः । वसुदेवाय नाख्येयमित्यूचे वः परिच्छदम् ।। ११९ ॥ अपरेधुर्वसुदेवं नमस्कर्तुमुपागतम् । निजोत्संग समारोप्य समुद्रविजयोऽवदत् ।। १२० ॥ क्रीडापर्यटनेनापि कृशीभूतोऽसि तद्दिवा । बहिर्न गम्यं भवता स्थेयं मद्गृह एव हि ।। १२१ ॥ कला गृहाणाभिनवाः प्रागधीताश्च संस्मर । भविष्यति विनोदस्ते वत्स गोष्ठ्या कलाविदाम् ।। १२२ ॥ आमेत्युक्त्वा वसुदेवो विनीतोऽस्थात्तथैव हि । विनोदैर्गीतनृत्याद्यैर्दिवसानतिवाहयन् ॥ १२३ ।। तत्रापतंती सोऽन्येधुः कुब्जिका गन्धधारिणीम् । पप्रच्छायं कस्य कृते गन्धः साप्येवमब्रवीत् ।। १२४ ।। गन्धद्रव्यं कुमारेदं शिवादेव्याधुना स्वयम् । श्रीमत्समुद्रविजयनिमित्तं प्रेषितं खलु ।। १२५ ॥ १ वो युष्माकं युष्माभिरित्यर्थः वसुदेवाय न कथनीयमिति परिच्छदमूचे इत्यन्वयः ।
वसुदेवरुपेण | पौरस्त्रीषु कार्मणम् ।
।। ५२॥