________________
त्रिषष्टिशलाका
पुरुषचरिते
| अष्टमं पर्व द्वितीयः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
॥५३॥
ममाप्युपकरोत्येतदिति जल्पन् जहार तत् । गन्धद्रव्यं वसुदेवकुमारो नर्मलीलया ।। १२६ ॥ सरोषा साप्युवाचैवं चरितेनामुनैव हि । नियंत्रितस्तिष्ठसीह तेनाप्यूचे कथं न्विति ।। १२७ ।। सा चख्यौ भीतभीता च पौरवृत्तांतमादितः । रहस्यं खलु नारीणां हृदये न चिरं स्थिरम् ।। १२८ ।। पौरीभ्यः स्वं रोचयितुं वसुदेवो भ्रमत्यसौ । एवं मां मन्यते राजा कृतं वासेन मेऽत्र तत् ।। १२९ ।। एवं विचिन्त्य तां दासी विसृज्य च दिनात्यये । कृत्वा गुटिकया वेषांतरं स निरगात्पुरात् ।। १३० ॥ बहिर्गत्वाकरोच्चित्यां स्मशानासन्नदारुभिः । अनाथं मृतकं कचिज्ज्वालयामास तत्र च ।। १३१ ।। गुरुणां क्षमणार्थं तु स्तंभे चैकत्र पत्रकम् । लिखित्वा निजहस्तेन वसुदेवो व्यलंबयत् ।। १३२ ।। दोषत्वेनाभ्यधीयंत गुरूणा यद्गुणा जनैः । इति जीवन्मृतंमन्यो वसुदेवोऽनलेऽविशत् ॥१३३ ॥ ततः सन्तमसंतं वा दोषं मे स्ववितर्कितः । सर्वे सहध्वं गुरवः पौरलोकाश्च मूलतः ।। १३४ ।। इति कृत्वा वसुदेवं विप्रवेषमवर्त्मना । भ्रांत्वा सन्मार्गगं दृष्ट्वा रथस्था काचिदंगना ।। १३५ ॥ पितृवेश्म व्रजंत्यंबामूचे श्रान्तममुं द्विजम् । आरोपय रथे सापि तत्कृत्वा ग्राममासदत् ।। १३६ ।।
।युग्मम् ॥ तत्र च स्नातभुक्तः स सायं यक्षगृहं गतः । वसुदेवः प्रविष्टोऽग्निमिति विज्ञाय यादवाः ।। १३७ ।।
| वसुदेवस्य
| विदेश
| गमनम् ।
॥ ५३॥