________________
त्रिषष्टिशलाकापुरुषचरिते
॥५४॥
अष्टम पर्व | द्वितीयः
सर्गः | श्रीअरिष्ट| नेमिजिनचरितम् ।
क्रंदन्तः सपरीवाराः प्रेतकार्याणि चक्रिरे । श्रुत्वेति वार्ता निश्चितो विजयखेटेऽगात्पुरे ।। १३८ ।। सुग्रीवस्तत्र राजाभूत्तस्य चोभे कलाविदौ । श्यामाविजयसेनाख्ये कन्ये अतिमनोरमे ।।१३९ ॥ पर्यणैषीद्वसुदेवः कलाजयपणेन ते । रममाणः समं ताभ्यां तत्र चास्थाद्यथासुखम् ।। १४० ॥ पल्या विजयसेनायामक्रूरो नाम नंदनः । तत्राभूद्वसुदेवस्य वसुदेव इवापरः ।। १४१ ।। ततोऽपि प्रस्थितः प्रापदतिघोरां महाटवीम् । जलार्थी तत्र वार्ष्णेयो जलावतं ययौ सरः ।। १४२ ।। दधावे तत्र कोऽपीभो विध्याद्रिरिव जंगमः । खेदयित्वा कुमारस्तमारुरोह मृगेन्द्रवत् ।। १४३ ।। गजारूढं च तं दृष्ट्वाऽर्चिमालिपवनंजयौ । खेचरौ कुंजरावर्तोद्याने नीत्वा व्यमुंचताम् ।। १४४ ।। तत्र विद्याधराधीशोऽशनिवेगः स्वकन्यकाम् । श्यामां नाम ददौ तस्मै रेमे च स तया सह ।।१४५ ॥ वीणावाद्येन वार्ष्णेयस्तस्यास्तुष्टो ददौ वरम् । अवियोगस्त्वया मे स्तादित्ययाचत सापि हि ।। १४६ ।। किंकारणो वरोऽसावित्युदिते तेन साब्रवीत् । वैताढ्ये किन्नरगीते पुरेऽर्चिमाल्यभून्नृपः ।।१४७ ।। तस्याभूज्ज्वलनवेगोशनिवेगश्च नन्दनौ । विन्यस्य ज्वलनं राज्येऽर्चिमाली व्रतमाददे ॥१४८ ।। ज्वलनस्य विमलायां मनरंगारकोऽभवत् । अहं त्वशनिवेगस्य दुहिता सुप्रभाभवाः ।। १४९ ॥ ज्वलनोऽप्यशनिवेगं राज्ये न्यस्य दिवं ययौ । विद्याबलात्तं निर्वास्य राज्यमंगारकोऽग्रहीत् ।। १५०॥ १ कलानां जय एव पणः प्रतिज्ञा तेन । २ कि कारणं यस्य सः ।
वसुदेवस्य | विद्याधरकन्यया विवाहः ।
॥ ५४॥