________________
त्रिषष्टिशलाकापुरुषचरिते
॥५५॥
अष्टम पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
मत्पिताष्टापदेऽथागात्तत्रैकं चारणं मुनिम् । पप्रच्छांगिरसं नाम राज्यं भावि किं न वा ।। १५१ ॥ मुनिराख्यत्त्वदुहितृश्यामाभर्तृप्रभावतः । राज्यं ते भावि स ज्ञेयो जलावर्तेभनिर्जयात् ।। १५२ ॥ मुनिवाक्प्रत्ययात्तस्थौ निवेश्यात्र पुरं पिता । प्रैषीद्वौ खेचरौ तत्र जलावर्ते सदैव हि ।। १५३ ।। जित्वारूढो गजं ताभ्यां प्रेक्ष्यानीतस्त्वमत्र च । मत्पित्राशनिवेगेन मया चोद्वाहितः प्रभो ॥१५४ ।। पुरा च धरणेन्द्रेण नागेन्द्रेण महात्मना । विद्याधरैश्च संभूय समयोऽयं प्रतिष्ठितः ।। १५५ ॥ अर्हच्चैत्यसमासन्नं सस्त्रीकं साधुपार्श्वगम् । यो हनिष्यति सद्विद्योऽप्यविद्यः स भविष्यति ।। १५६ ।। इत्यस्मात् कारणात् स्वामिन्नवियोगो वृतो मया ।मा वे एकाकिनः पापोंऽगारकः स वधीदिति ।। १५७ ।। प्रतिपद्येति तद्वाचं दशमोऽन्धकवृष्णिसूः । तया सह कलाभ्यासविनोदैः कालमत्यगात् ।।१५८ ।। तया सहान्यदा सुप्तं तं जड़ेंऽगारको निशि । प्रबुद्धो वसुदेवोऽपि को मां हर्तेत्यचिंतयत् ।। १५९ ।। अंगारकं स प्रेक्षिष्ट श्यामाननसमाननम् । श्यामां च तिष्ठ तिष्ठेति जल्पन्तीमसिधारिणीम् ॥१६० ॥ तामंगारो द्विधाकार्षीद्वसुदेवश्च पीडितः । द्वे श्यामे अभितोङ्गारं युद्ध्यमाने ददर्श च ।। १६१ ॥ इयं मायेति निश्चित्य वसुदेवोऽथ मुष्टिना । जघानांगारकमूर्ध्नि पविनेवाचलं हरिः ।। १६२ ॥ प्रहारार्तेन वार्ष्णेयस्तेन मुक्तो नभस्तलात् । पपात पुर्याश्चंपाया बहिः सरसि विस्तृते ॥१६३ ॥ १ जलावर्तस्य सरसो गजस्तस्य यो जेता स ते दुहितृभर्तेत्यर्थः ।२ निर्णयः । ३ वो युष्मानिति मान्यार्थे बहुवचनम् । ४ वजेण ।
वसुदेवस्य विद्याधरकन्यया विवाहः ।
॥ ५५॥