________________
त्रिषष्टिशलाकापुरुषचरिते
॥५६॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तत्सरो हंसवत्तीा तत्तीरोपवनस्थितम् । वसुदेवो वासुपूज्यायतनं प्राविशत् सुधीः ॥ १६४ ।। श्रीवासुपूज्यं वदित्वा निशाशेषमतीत्य च । ययौ स चंपामेकेन मिलितेन द्विजन्मना ।। १६५ ॥ वीणापाणीस्तत्र यूनः स्थाने स्थाने निरीक्ष्य सः । द्विजं पप्रच्छ तद्धेतुं द्विजोऽप्येवमभाषत ॥१६६ ॥ श्रेष्ठीह चारुदत्तोऽस्ति तस्य रूपवती सुता । नाम्ना गंधर्वसेनेति कलानामेकमास्पदम् ।। १६७ ॥ गान्धर्वे यो विजेता मे स भर्तेति प्रतिश्रवः । तस्यास्तेनैष सर्वोऽपि गान्धर्वनिरतो जनः ॥१६८ ।। मासे मासे च सुग्रीवयशोग्रीवाभिधानयोः । गान्धर्वाचार्ययोरग्रेऽनुयोगोऽत्र प्रवर्तते ।। १६९ ॥ प्रकृष्टं तत्र सुग्रीवं विप्रवेषेण वृष्णिसूः । गत्वोवाच स्कन्दिलोऽहं विप्रो गौतमगोत्रजः ।। १७० ।। अहं गन्धर्वसेनार्थी गान्धर्वं तव सन्निधौ । अध्येष्ये प्रतिपद्यस्व शिष्यं मां दूरदेशिनम् ।। १७१ ॥ तं मूर्ख इति सुग्रीवोऽनादरेण समीपगम् । चकार मन्दधीधूलिच्छन्नरत्नमिवाविदन् ।। १७२ ॥ वार्ष्णेयो हासयँल्लोकान् ग्राम्योक्त्या स्वं च गोपयन् । गाध्यियनव्याजात्तस्थौ सुग्रीवसनिधौ ।। १७३ ।। सुग्रीवभार्यया वाददिने शौरेः समर्पितम् । वासोयुग्मं सुतस्येव स्नेहाद्विशदशोभनम् ।। १७४ ॥ प्राश्यामादत्तनेपथ्यं तच्च वासोद्वयं नवम् । पर्यधत्त वसुदेवो जनयन् जनकौतुकम् ॥ १७५ ॥ एहि मन्येऽद्य गन्धर्वसेना जेष्यसि विद्यया । अतिगान्धर्वविज्ञोऽसीत्यहस्यत स नागरैः ।। १७६ ॥ १ ब्राह्मणेन । २ संगीततत्परः । ३ प्रयोगोऽभिनय इति यावत् ।
वसुदेवस्य श्रेष्ठीपुत्र्या गन्धर्वसेनया विवाहः ।
&॥ ॥५६॥