________________
त्रिषष्टिशलाका
पुरुषचरिते
॥५७॥
तन्नर्मभिः प्रीयमाणः स ययौ तत्र पर्षदि । सोपहासैर्नरैरूच्चासनमध्यास्यते स्म सः ।। १७७ ।। गन्धर्वसेना तत्रागाद्भूचरीव सद्वधूः । सा गन्धर्वविदोऽजैषीद्बहून् स्वपरदेशिनः ।। १७८ ।। स्वस्य वादक्षणे प्राप्ते समुद्रविजयानुजः । आविश्चक्रे निजं रूपं कामरूपं सुरोपमम् ॥ १७९ ॥ गन्धर्वसेना तद्रूपं प्रेक्ष्य चुक्षोभ तत्क्षणात् । जनो विसिष्मिये सर्वः कोऽसाविति वितर्कयन् ॥ १८० ॥ लोकैर्या या याऽर्पिता वीणा तां तां सोऽदूषयत्सुधीः । गन्धर्वसेना स्वां वीणां ततस्तस्यार्पयत् स्वयम् ॥ १८१ ॥ सज्जयित्वा च तां वीणां स ऊचे सुभ्रु किं मया । अनया वीणया गेयं साप्येवं प्रत्यवोचत ।। १८२ ॥ मुनेर्विष्णुकुमारस्य पद्मचक्र्यग्रजन्मनः । त्रिविक्रमाभिसंबद्धं गीतं गीतज्ञ वादय ।। १८३ ।। तथा जगौ च वार्ष्णेयः पुंवेषेव सरस्वती । यथा जिगाय गंधर्वसेना पार्षद्यसंयुताम् ॥ १८४ ॥ चारुदत्तस्ततः श्रेष्ठी व्यसृजद्वादिनोऽखिलान् । स्वगृहे वसुदेवं च गौरवेणानयत् स्वयम् ।। १८५ ॥ विवाहकाले श्रेष्ठ्यूचे गोत्रमुद्दिश्य वत्स किम् । स्वकन्यासंप्रदानं ते करोमि ब्रूहि सुन्दर ।। १८६ । स्मित्वोचे वसुदेवोऽपि वद यत्ते मतं कुलम् । श्रेष्ठ्यप्यूचे वणिक्पुत्रीत्यदस्ते स्मितकारणम् ।। १८७ । समये कथयिष्यामि पुत्र्या वृत्तान्तमादितः । इत्युक्त्वाकारयच्छ्रेष्ठी विवाहं वरकन्ययोः ।। १८८ ।। तौ सुग्रीवयशोग्रीवौ स्वे श्यामाविजयाह्वये । कन्यके वसुदेवाय ददतुर्गुणरंजितौ ॥ १८९ ॥
१ देवांगना । २ महापद्मचक्रिज्येष्ठबंधोः ।
1546
अष्टमं पर्व द्वितीयः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
वसुदेवस्य गन्धर्वसेनया
विवाहः ।
॥ ५७ ॥