________________
त्रिषष्टिशलाकापुरुषचरिते
॥५८॥
| अष्टमं पर्व द्वितीयः |सर्गः |श्रीअरिष्टनेमिजिनचरितम् ।
अपरेधुर्वसुदेवं चारुदत्तोऽब्रवीदिति । श्रृणु गन्धर्वसेनायाः सर्वमद्य कुलादिकम् ।। १९० ॥ इहैव पुर्या श्रेष्ठ्यासीद्भानु म महाधनः । तस्य भार्या सुभद्रेति तावपुत्रत्वदुःखितौ ।। १९१ ।। सुतजन्मान्यदा पृष्टस्तकाभ्यां चारणो मुनिः । भावीत्याख्याय स ययौ क्रमात्त्वहं सुतोऽभवम् ।। १९२ ।।। मित्रैः सहकदा क्रीडन्नपश्यं सिन्धुरोधसि । आकाशगामिनः कस्याप्यध्रिन्यासं मनोहरम् ॥ १९३ ॥ स्त्रीपदैः सप्रिय इति ज्ञातोऽसावग्रतोऽपि च । रंभागृहं पुष्पतल्पं फैलकासी च दृष्टवान् ॥ १९४ ।। तत्रादूरे लोहकीलैः खेचरं कीलितं द्रुणा । अद्राक्षं तदसेः कोशे चौषधीवलयत्रयम् ।। १९५ ॥ स तु तास्वेकयौषध्या स्वबुद्ध्या मोचितो मया । संरोहितोऽन्ययाकारि चेतनस्तु तृतीयया ।। १९६ ॥ स मामवोचद्वैताढ्ये नगरे शिवमंदिरे । महेन्द्रविक्रमनृपात्मजोऽमितगति_हम् ॥ १९७ ।। सुहृदा धूमशिन गौरमुंडेन चान्वितः । अहं क्रीडन्नेकदागां ह्रीमंतं वरपर्वतम् ॥ १९८ ॥ हिरण्यरोम्नस्तत्राहं स्वमातुलतपस्विनः । कुमारी दृष्टवान् रम्यां नामतः सुकुमालिकाम् ।। १९९ ।। गतः स्मरातः स्वं स्थान मित्राज्ज्ञात्वा च मां तथा । पित्रा सद्यः समानाय्य तयाहं परिणायितः ॥२००॥ रममाणस्तया सार्धमहमस्थामथान्यदा । अभिलाषी धूमशिखस्तस्यां ज्ञातो मयेंगितैः ।। २०१॥ तथाप्यहं तेन सह व्यहार्षमिह चागतः । प्रमत्तः कीलितस्तेन हृता च सुकुमालिका ।। २०२ ॥ १ ताभ्याम् । २ सिंधुतटे । ३ फलैः कासते फलकासी । ४ वृक्षेण सह । ५ व्रणरहितः । ६ चेष्टितैः ।
| गन्धर्वसेनाया वृत्तान्तः।
|| ५८॥