________________
त्रिषष्टि
शलाकापुरुषचरिते
अष्टम पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
॥५९॥
गन्धर्वसेनाया
भवता मोचितश्चास्मि ब्रूहि किं करवाण्यतः । तवाकारणमित्रस्य येन स्यामनृणः सखे ।। २०३ ॥ अहं त्वदर्शनेनापि कृतकृत्योऽस्मि सुंदर । एवं मया भाषितोऽथ सोऽगादुत्पत्य खेचरः ।।२०४ ।। अहं च गतवान् वेश्म मित्रैः क्रीडन् यथासुखम् । क्रमाच्च यौवनं प्राप्तः पित्रोर्नेत्रोत्सवं ददत् ।।२०५ ।। सर्वार्थमातुलसुतां नाम्ना मित्रवतीमहम् । ततः पित्रोर्निर्देशेन शुभेऽह्नि परिणीतवान् ।। २०६ ।। कलासक्तश्च तस्यां नाभूवं भोगपरायणः । तथा दृष्ट्वा पितृभ्यां च मुग्धोऽसाविति तर्कितः ।। २०७ ॥ ललितायां ततो गोष्ठ्यामहं वैदग्ध्यहेतवे । क्षिप्तः पितृभ्यां व्यचरं स्वैरं चोपवनादिषु ॥२०८ ॥ कलिंगसेनादुहितुः सदने विलसन्नहम् । वसंतसेनावेश्याया द्वादशाब्दानि तस्थिवान् ।। २०९ ।। व्ययितास्तत्र चाज्ञानात् षोडश स्वर्णकोटयः । कलिंगसेनया निःस्व इति निर्वासितोऽस्मि च ।। २१० ॥ मृत्युं ज्ञात्वा ततः पित्रो१ःस्थो धैर्य प्रपद्य च । वाणिज्यार्थं स्वभार्याया भूषणानि गृहीतवान् ।।२११ ।। मातुलेन सहान्येधुश्चलितो भूषणैश्च तैः । उशीरवर्तिनगरे कसं क्रीतवानहम् ।। २१२ ॥ ताम्रलिप्त्यां गच्छतो मे स कर्पासो दवाग्मिना । दग्धो निर्भाग्य इति च मातुलेनाहमुज्जितः ।। २१३ ।। अश्वारूढस्ततश्चैकोऽप्यचलं पश्चिमां प्रति । विपन्नः सोऽपि चाश्वो मे पादचारी ततोऽभवम् ।। २१४ ।। द्रोघीयसाऽध्वना क्लांतः क्षुत्पिपासाकरालितः । अगां प्रियंगुनगरं वणिग्जनसमाकुलम् ।।२१५ ॥ १ निर्धनः । २ अतिदीर्पण । ३ करालितः पीडितः ।
वृत्तान्तः।
।। ५९ ॥