________________
त्रिषष्टिशलाकापुरुषचरिते
॥६०॥
दृष्टः सुरेन्द्रदत्तेन पितृमित्रेण तत्र च । पुत्रवद्वस्त्रभोज्याद्यैः सत्कृतोऽस्थां यथासुखम् ।। २१६ ।। वृद्ध्यादाय द्रव्यलक्षं वार्यमाणोऽपि तेन च । धनायोपात्तभांडोऽहं यानेनाविशमंबुधिम् ।। २१७ ।। प्राप्याथ यमुनाद्वीपमंतद्वीपपुरादिषु । कुर्वन् गतागतं स्वर्णकोटीरष्टाहमार्जयम् ।। २१८ ।। ततः स्वदेशाभिमुखं चलितोऽहं जलाध्वना । स्फुटितं यानपात्रं च फलकं चैकमासदम् ।। २१९ ।। सप्तभिर्वासरैस्तेन तीर्णवानहमंबुधिम् । उदंबरावतीवेलं नाम तीरमुपागमम् ॥ २२० ॥ तत्र राजपुरं नाम कथमप्याप्तवान् पुरम् । बहिस्तस्याश्रमपदे गतोऽस्म्युद्दामपादपे ।। २२१ ।। त्रिदंडिनं दिनकरप्रभ इत्यभिधानतः । तत्राद्राक्षं परिव्राजं तस्याख्यं स्वकुलादिकम् ।। २२२ ॥ तेन चास्म्युपचरितः पुत्रवत्प्रीतचेतसा । अन्येद्युर्भणितश्चाहं धनार्थीव विभाव्यसे ।। २२३ ।। तदेहि वत्स गच्छावः पर्वतं तत्र ते रसम् । दास्यामि येन कनककोटयः स्युर्यथारुचि ।। २२४ ।। एवं चोक्तस्तेन समं चलितोऽहं प्रमोदभाक् । अनेकसाधकां प्राप्तोऽस्म्यपरेह्नि महाटवीम् ।। २२५ ।। गच्छन्तौ तस्य शैलस्य नितंबेऽथ महाबिलम् । बहुयंत्रशिलाकीर्णं गतौ यममुखोपमम् ॥ २२६ ॥ मंत्रेणोद्घाटयामास तद्द्द्वारं स त्रिदंडिकः । प्रविष्टौ दुर्गपातालाभिधानं तन्महाबिलम् ॥ २२७ ॥ भ्रात्वा तत्र बहु प्राप्तौ कूपं रसनिकेतनम् । चतुर्हस्तप्रविस्तारं नरकद्वारदारुणम् ।। २२८ ।। 9 अनेके साधका यस्यां ताम् ।
अष्टमं पर्व द्वितीयः
सर्गः
श्री अरिष्टनेमिजिनचरितम् ।
गन्धर्वसेनाया
वृत्तान्तः ।
|| 03 ||