________________
त्रिषष्टिशलाका
पुरुषचरिते ॥६१ ॥
कूपान्तः प्रविशादत्स्वालार्बुना रसमित्यहम् । उक्तस्तद्धृतरज्ज्वाथ कूपे मंचिकयाविशम् ।। २२९ ।। चतुःपुरुषपर्यन्ते मेखलापरिवारितः । दृष्टो मया रसस्तत्र निषिद्धश्चास्मि केनचित् ॥ २३० ॥ अवोचमहमप्येवं चारुदत्तोऽस्मि वाणिजः । प्रवेशितो भगवता रसार्थं किं निषेधसि ।। २३१ ॥ सोऽप्यवोचद्वणिगस्मि धनकांक्षी त्रिदंडिना । तेन क्षिप्तो रसकूपे बलये पशुमांसवत् ॥ २३२ ॥ सोऽगात्पापोऽपरकायो भक्षितश्च रसेन मे । मा विशस्तदिहालाबुन्यहं क्षेप्स्यामि ते रसम् ॥ २३३ ॥ ततो मयार्पितालाबु पूरयित्वा रसेन सः । अबध्नान्मंचिकाधस्ताद्रज्जुं चाहमकंपयम् ॥ २३४ ॥ रज्जुं चकर्ष भगवांस्तटासन्नं गतं स माम् । अयाचद्रसपात्रं तन्न चोत्तारयति स्म माम् ।। २३५ ।। तं च लुब्धं द्रोहिणं च ज्ञात्वा कूपेऽक्षिपं रसम् । समंचिकं सोऽक्षिपन्मां तत्र वेद्यामथापतम् ॥ २३६ ॥ स चाकारणबन्धुर्मां वणिगूचे विषीद मा । रसान्तर्न गतोऽसि त्वं साधु वेदौ स्थितोऽसि च ॥ २३७ ॥ यदा तदात्रैति गोधा तत्पुच्छ्मवलंब्य भोः । गन्तव्यं भवता द्वारे प्रतीक्षस्व तदागमम् ।। २३८ ॥ कालं कियंतमप्यस्थां नमस्कारं गणन्मुहुः । स्वस्थस्तद्वचसा चाहं पुमान् सोऽपि व्यपद्यत ।। २३९ ॥ अन्यदा शब्दमश्रौषं भीषणं चकितस्त्वहम् । स्मृत्वा च तद्वचोऽवेदं सा गोधा याति निश्चितम् ॥ २४० ॥ सागात्पातुं रसं तस्या वलिताया महौजसः । उभाम्यामपि हस्ताभ्यां लांगूले लग्नवानहम् ।। २४१ ।। १ प्रविश-आदत्स्व । २ अलाबुना तुबिकया रसमात्स्व गृहाण । ३ मम अधः शरीरम् ।
अष्टमं पर्व द्वितीयः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
गन्धर्वसेनाया
वृत्तान्तः ।
॥ ६१ ॥