________________
त्रिषष्टिशलाकापुरुषचरिते
॥२॥
| अष्टमं पर्व | द्वितीयः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
गोपाल इव गोपुच्छलग्नो नद्यास्ततोऽवटात् । तत्पुच्छलग्नो निरगां तत्पुच्छं चामुचं बहिः ।। २४२ ॥ मूर्छितश्चापतं भूमौ लब्धसंज्ञोऽथ पर्यटन् । प्राप्तोऽस्म्यरण्यं महिषेणारूढश्च शिलामहम् ।। २४३ ।। ताडयंस्तुंगशृंगेणं तां शिलां महिषोऽथ सः । गृहीतो वोहसेनाशु कीनांशस्येव बाहुना ॥२४४ ।। तयोर्युव्यग्रयोश्चाहं समुत्तीर्य पलायितः । वेगेन गतवान् ग्राममटवीप्रांतवर्तिनम् ॥ २४५ ।। तत्र मातुलमित्रेण रूद्रदत्तेन वीक्षितः । पालितश्चाथ भूयोऽपि पुनर्नव इवाभवम् ।। २४६ ॥ गृहीत्वा लक्षकप्रायं भांडं तुच्छमहं ततः । अचालिषं तेन सह स्वर्णभूमि प्रति द्रुतम् ॥ २४७ ॥ इषुवेगवतीं नाम पथि चोत्तीर्य निम्नगाम् । गिरिकूटे गतावावां ततो वेत्रवने क्रमात् ।। २४८ ॥ प्राप्तौ टंकणदेशं च गृहीत्वा द्वौ च मेषकौ । तदारूढावजपथं क्रांतवन्तौ ततः परम् ।। २४९ ॥ ततो रूद्रोऽवदन्नातो विषयः पादचारिणाम् । हत्वाजौ कुर्वहे भस्त्रे अन्तर्लोमे बहिःपले ॥२५० ॥ प्रविशावस्तयोरन्तरिह भारंडपक्षिभिः । मांसभ्रमाद्गृहीतौ तैर्यास्यावः स्वर्णमेदिनीम् ।। २५१ ॥ अवोचमहमप्यावामुत्तीर्णी दुर्गमां भुवम् । यकाभ्यां तावजावेतौ कथं हन्वः स्वबंधुवत् ।।२५२ ।। न तावत्तावकावेतौ कथं मां त्वं निषेधसि । इत्युक्त्वा सोऽवधीदादौ क्रुद्धो निजमजं द्रुतम् ।। २५३ ॥ मामपश्यद्वितीयोऽजो दीर्घकातरया दृशा । तं चावोचमहं त्रातुं त्वां नेशोऽस्मि करोमि किम् ।।२५४ ॥ १ कूपात् । २ अजगरेण । ३ यमस्य । ४ युधि व्यग्रयोः । ५ अजेन गम्यते यस्मिन्मार्गे सोऽजपथस्तम् । ६ देशः ।७ बहिसिं ययोस्ते ।
गन्धर्वसेनाया वृत्तान्तः ।
।। ६२॥