________________
त्रिषष्टि
शलाका
पुरुषचरि ॥६३॥
तथापि तेऽस्तु शरणं जैनो धर्मो महाफलः । स एव विधुरे बंधुः पिता माता प्रभुश्च सः ।। २५५ ।। ततो मत्कथितं धर्मं शिरसा प्रतिपन्नवान् । मया दत्तं नमस्कारं सोऽश्रौषीच्च समाहितः ।। २५६ ॥ हतश्च रुद्रदत्तेन देवभूयं जगाम सः । अंतस्तद्भस्त्रयोरावां प्रविष्टौ च क्षुरीधरौ ।। २५७ ।। भारंडाभ्यामुद्धृतौ च द्वयोश्चैकामिषेच्छ्या । आयुध्यमानयोर्मार्गे पतितोऽहं सरोवरे ।। २५८ ।। भस्त्रां क्षुरिकया दीर्त्वा तीर्त्वा च निरगामहम् । गच्छन्नग्रेऽटवीमध्येऽद्राक्षमेकं महागिरिम् ।। २५९ ॥ तत्रारुढेन दृष्टश्च कायोत्सर्गस्थितो मुनिः । वंदितश्च मया धर्मलाभं दत्वेत्युवाच सः ।। २६० ।। कथं त्वं चारुदत्तेहाभ्यागादुर्गक्षितावहो । सुरविद्याधरखगानृते नान्यस्य यद्गतिः ।। २६१ ।। एषोऽमितगतिः सोहं यस्त्वया मोचितः पुरा । तदा ह्युत्पतितः प्रापं तमुपाष्टापदे द्विषम् ॥ २६२ ॥ त्यक्त्वा मम प्रियां नंष्ट्वा सोऽगादष्टापदाचले । तां पतंतीं गृहीत्वाहं स्वस्थानमगमं पुनः ॥ २६३ ॥ राज्ये मां स्थापयित्वा च मत्पिता व्रतमात्तवान् । पार्श्वे चारणयतिनोर्हिरण्यस्वर्णकुंभयोः ।। २६४ ॥ पल्यां मनोरमायां मेऽभवत् सिंहयशास्सुतः । वराहग्रीव इत्यन्यो मत्तुल्यबलविक्रमः ।। २६५ । पल्यां विजयसेनायां सर्वगांधर्वकोविदा । पुत्री गंधर्वसेनेति रुपशालिन्यजायत ।। २६६ ॥ राज्यं च यौवराज्यं च दत्वा विद्याश्च पुत्रयोः । पितृगुर्वोस्तयोः पार्श्वेऽहमपि व्रतमात्तवान् ।। २६७ ।।
१ अष्टयपदस्य समीपे ।
अष्टमं पर्व
द्वितीयः
सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
गन्धर्वसेनाया
वृत्तान्तः ।
॥ ६३ ॥