________________
त्रिषष्टिशलाकापुरुषचरिते
॥६४॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
लवणांभोधिमध्यस्थो द्वीपोऽयं कुंभकंठकः । कर्कोटकश्च शैलोऽयं तप्ये यत्र स्थितस्तपः ।।२६८ ।। अत्र त्वं कथमायासीरिति तस्याभिपृच्छतः । क्रमादाख्यातवानात्मव्यसनं सर्वमप्यहम् ॥ २६९ ।। अत्रांतरे च नभसा तत्तुल्यौ रूपसंपदा । विद्याधरवरौ तत्रेयतुस्तं च प्रणेमतुः ।। २७० ।। तत्सादृश्यान्मया ज्ञातौ तत्सुताविति तौ ततः । चारुदत्तं प्रणमंतमित्यूचे च महामुनिः ।। २७१ ।। तात तातेति जल्पन्तौ तौ मां नत्वा निषेदतः । अत्रान्तरे च दिविषद्विमानं धोरवातरत् ।। २७२ ।। ततोऽवतीर्य त्रिदशो महर्द्धिर्मां नमोऽकरोत् । ततः प्रदक्षिणीकृत्यं तं महर्षिमवंदत ।। २७३ ।। पृष्टस्ताभ्यां खेचराभ्यां तं वंदनविपर्ययम् । आख्यद्देवश्चारुदत्तो धर्माचार्यो ह्ययं मम ।। २७४ ।। तथाहि काशीपुर्या द्वे परिव्राजौ बभूवतुः । सुभद्रासुलसे जामी वेदवेदांगपारगे ।। २७५ ।। तदा च वादिनस्ताभ्यां बहवोऽपि पराजिताः । परिव्राट याज्ञवल्क्यस्तु वादायान्येधुराययौ ।। २७६ ।। जितः शुश्रुषको जेतुर्भवितेति प्रतिश्रवम् । विधाय तेन सुलसा जिता दासी कृता च सा ।। २७७ ।। याज्ञवल्क्यः सुलसया तया शुश्रूषमाणया । तरुण्या नवतारुण्यो जज्ञे कामवशंवदः ।। २७८ ॥ पुर्या अदूरे निवसंस्तया चिक्रीड सोऽन्वहम् । अजायत सुतस्तस्यां याज्ञवल्क्यत्रिदंडिनः ।। २७९ ।। लोकोपहासभीतौ च पिप्पलस्य तले सुतम् । विहाय नंष्ट्वा सुलसायाज्ञवल्क्यौ प्रजग्मतुः ।। २८० ॥ १ भगिन्यौ।
गन्धर्वसेनाया वृत्तान्तः ।
॥६४॥