________________
त्रिषष्टिशलाकापुरुषचरिते
॥६५॥
| अष्टमं पर्व | द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तद्विज्ञाय सुभद्रागात्तं च जग्राह बालकम् । अदंतं पिप्पलफलं मुखे निपतितं स्वयम् ।। २८१ ।। पिप्पलाद इति नाम यथार्थं तस्य साऽकरोत् । यत्नादवर्धयत्तं च वेदाद्यं चाध्यजीगपत् ।। २८२ ।। महाप्राज्ञः सोऽतिविद्वान् वादिदर्पासहोऽभवत् । तद्वादहेतोः सुलसायाज्ञवल्क्यौ समेयतुः ।। २८३ ।। स द्वावप्यजयद्वादे ज्ञात्वा च पितरौ निजौ । त्वक्तोऽमुभ्यामहमिति क्रोधं परमुपाययौ ।। २८४ ॥ सम्यक् प्रतिष्ठाप्य मातापितृमेधादिकान्मखान् । पितृमेधे मातृमेधे चावधीत् पितरौ स तौ ।।२८५ ।। पिप्पलादस्य शिष्योऽहं वाग्बलि मतस्तदा । पशुमेधादिकान् कृत्वा नरकं घोरमासदम् ।।२८६ ।। उघृत्य नरकाज्जातः पंचवारानहं पशुः । यज्ञे द्विजन्मभिः क्रूरैर्भूयो भूयो विनाशितः ।। २८७ ॥ ततोऽजष्टंकणेऽभूवं चारुदत्तेन चामुना । आख्यातधर्मो रूद्रेण हतः सौधर्ममाप्नुवम् ॥२८८ ॥ धर्माचार्यो ममायं तच्चारुदत्तः कृपानिधिः । नमोऽकारि ततः पूर्वं न क्रमो लघितो मया ।।२८९ ॥ इत्युक्तौ तेन देवेन तावप्येवमवोचताम् । उपकारी तवेवास्मत्पितुरप्येष जीवदः ।। २९० ॥ स देवो मामथावोचच्चारुदत्त वदानघ । किमैहलौकिकं ते प्रत्युपकारं करोम्यहम् ।। २९१ ।। समये त्वं समागच्छेरित्युक्तः स मयामरः । तिरोधात् खेचराभ्यां तु नीतोऽहं शिवमंदिरे ।। २९२ ।। ताभ्यां च तज्जनन्या च तत्रास्थां कृतगौरवः । तद्बधुभिः खैचरैश्च पूज्यमानोऽधिकाधिकम् ।।२९३ ।। १ यज्ञान् । २ अजः-टंकणं ।
गन्धर्वसेनाया वृत्तान्तः ।
॥६५॥