________________
त्रिषष्टिशलाकापुरुषचरिते
॥६६॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
इमां गंधर्वसेनां तौ निजजामि प्रदर्श्य मे । आख्यातां प्रव्रजस्तातस्तदावामेवमादिशत् ।। २९४ ।। याख्यातं ज्ञानिनास्माकं यद्विजित्य कलास्वमूम् । युष्मज्जामि वसुदेवकुमारः परिणेष्यति ।। २९५ ।। मबंधोश्चारुदत्तस्यार्पणीया भूचरस्य तत् । इमां यथा वसुदेवो भूचरः सुखमुद्वहेत् ।। २९६ ।। स्वपुत्री तद्गृहीत्वेमां गच्छेति तदुदीरिते । यावत्पर्यचलं तावत्सोऽपि देवः समाययौ ।।२९७ ।। सोऽमरः खेचरौ तौ च तद्गृह्याश्चान्यखेचराः । मामिहानैषुरक्षेपाव्योमयानेन लीलया ।। २९८ ।। स्वर्णमाणिक्यमुक्तानां कोटिकोटिः प्रदाय मे । ययौ स देवः स्वं स्थानं ते च विद्याधरोत्तमाः ।। २९९ ।। सर्वार्थमातुलं प्रातर्भार्यां मित्रवतीमपि । वसंतसेनां वेश्यां चापश्यमाबद्धवेणिकाम् ।।३०० ।। इयं गंधर्वसेनाया उत्पत्तिर्वसुदेव ते । कथिताद्य वणिकपुत्रीत्यवज्ञासीः स्म जातु मा ।।३०१ ।। चारुदत्तादिति श्रुत्वा वृत्तान्तं वृष्णिनन्दनः । अधिकं मुदितो रेमे समं गन्धर्वसेनया ।। ३०२ ।। चैत्रे स गच्छनुद्यानं रथारुढस्तया सह । मातंगवेषां मातंगावृतामैक्षिष्ट कन्यकाम् ।। ३०३ ।। गन्धर्वसेना तौ प्रेक्ष्य सविकारौ परस्परम् । उवाच सारथिं रथ्यांस्त्वरयेत्यरुणेक्षणा ।। ३०४ ।। द्रुतं गत्वा चोपवने क्रीडित्वा च तया समम् । भूयोऽपि चंपानगरी वसुदेवः समाययौ ।।३०५ ।। तं मातंगगणादेत्य जरन्मातंगिका तदा । दत्वाशीरुपविश्यैवं वसुदेवमवोचत ।। ३०६ ॥ १ वसन्तौ । २ रक्तनेत्रा क्रोधेनेत्यर्थः ।
गन्धर्वसेनाया वृत्तान्तः ।
॥६६॥