________________
अष्टमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥६७॥
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
पुरा स्वेषां विभज्यादात्स्वं राज्यमृषभध्वजः । तदा तु नमिविनमी नाभूतां तत्र दैवतः ।।३०७ ।। राज्यार्थिनौ सिषेवाते व्रतस्थमपि तं प्रभुम् । धरणेन्द्रस्तयोश्चादाद्राज्यं श्रेण्योर्द्वयोः पृथक् ॥३०८ ॥ राज्यं सुतेभ्यः कालेन दत्वा तौ स्वामिसंनिधौ । प्रव्रज्य जग्मतुर्मोक्षं मुक्तौ द्रष्टुमिव प्रभुम् ।। ३०९ ।। नमिसूनुस्तु मातंगः परिव्रज्य दिवं ययौ । तद्वंशेऽस्ति प्रहसितो नामतः खेचरेश्वरः ।। ३१० ॥ तस्य जायास्मि हिरण्यवती मम तु नन्दनः । सिंहदंष्ट्रो नीलयशास्तत्सुता प्रैक्षि या त्वया ।। ३११ ।। तमुद्वह त्वं कुमार मारार्ता त्वनिरीक्षणात् । क्षणः शुभो वर्ततेऽसौ विलंब सहते न सा ।। ३१२ ।। ऊचे शौरिर्विचिन्त्याहं वक्ष्यामि पुनरापतेः । सावोचत्तत्र गामी त्वमहं वेहेति वेत्ति कः ।। ३१३ ॥ इत्युक्त्वा सा ययौ क्वापि ग्रीष्मे शौरिरथान्यदा । क्रीडित्वाभसि सुष्वाप समं गन्धर्वसेनया ।। ३१४ ।। तं गृहीत्वा करे गाढमुत्तिष्ठेति वदन्मुहुः । तेन मुष्टया ताङ्यमानो भूत एकोऽहरद्रुतम् ।।३१५ ।। चितासमीपे नीतश्च सोऽपश्यज्ज्वलितानलम् । घोररुपां खेचरी च तां हिरण्यवतीं पुरः ।। ३१६ ॥ स्वागतं चन्द्रवदनेत्युक्तः प्रेतस्तयादरात् । तस्यै समर्प्य वार्ष्णेयं क्षणेनापि तिरोदधे ।।३१७॥ स्मित्वा वार्ष्णेयमूचे सा त्वयाचिंति कुमार किम् । चिंतयास्मदुपरोधादिदानीमपि सुन्दर ।।३१८ ॥ तदा पूर्वेक्षिता नीलयशाः सापि सखीवृता । तत्राजगाम श्रीदेवीवाप्सरः परिवारिता ।। ३१९ ।। १ स्व-इत्यस्य षष्ठी बहुवचनम् । २ कामपीडिताम् । ३ वा-इह-इति । ४ अंभसि जले क्रीडित्वेति संबन्धः ।
वसुदेवस्य विद्याघरेशकन्यया नीलयशसा विवाहः ।
॥ ६७॥