________________
अष्टमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥६८॥
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
गृहाण स्वप्रियमिति पितामह्योदिता तया । वसुदेवमुपादाय व्योम्ना नीलयशा ययौ ।। ३२० ।। हिरण्यवत्यपि प्रातर्वसुदेवमभाषत । मेघप्रभवनाकीर्णो ह्रीमानेष महागिरिः ।। ३२१ ॥ चारणाधिष्ठिते चात्रांगारको ज्वलनात्मजः । भ्रष्टविद्यः खेचरेन्द्रो विद्या भूयोऽस्ति साधयन् ।।३२२ ।। विद्याश्चिरेण सेत्स्यति तस्य त्वद्दर्शनात्पुनः । आशु सिध्यति तत्तस्योपकर्तुं गन्तुमर्हसि ।।३२३ ।। अलमेतेन दृष्टेनेत्युक्ता सा वृष्णिसूनुना । वैताढ्याद्रावनैषीत्तं नगरे शिवमन्दिरे ।। ३२४ ।। सिंहदंष्ट्रनरेन्द्रेण नीत्वा स्वौकसि याचितः । तां नीलयशसं कन्यां दशार्हः परिणीतवान् ॥३२५ ।। तदा च तुमुलं श्रुत्वा शौरिः पप्रच्छ कारणम् । द्वाःस्थोऽऽख्यदिह शकटमुखं नामास्ति पत्तनम् ।।३२६ ॥ तत्र राट् नीलवान्नाम तस्य नीलवती प्रिया । तयोर्नीलांजना पुत्रीर्नीलनामा च नन्दनः ॥ ३२७ ।। भ्रातुः स्वमा समं पूर्व संकेत इति चाभवत् । साधं दुहित्रा पुत्रस्य कार्यः पाणिग्रहोत्सवः ।। ३२८ ।। नीलांजनायाः पुत्री त्वत्प्रिया नीलयशा इयम् । अभून्नीलकुमारस्य नीलकंठाभिधः सुतः ॥ ३२९ ।। नीलः सुतार्थे संकेतदत्तामेतामयाचत । एतत्पित्रा पृष्ट आख्यन्मुनिरेवं बृहस्पति ।।३३० ।। पिता भरतवर्षार्धभर्तुर्विष्णोर्यदूत्तमः । वसुदेवो वरोऽमुष्या भावी सौभाग्यमन्मथः ।। ३३१ ।। आनीतो विद्यया त्वं तद्राज्ञेमां परिणीतवान् । तदर्थे चागतो नीलो जितश्च तुमुलस्ततः ।। ३३२ ॥ १ मेघप्रभनाम्ना वनेनाकीर्णः । २ राजा ।
वसुदेवस्य विद्याधरेशकन्यया नीलयशसा विवाहः ।
॥६८॥