________________
त्रिषष्टिशलाकापुरुषचरिते
॥६९॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
श्रुत्वेति मुदितः शौरिस्तया क्रीडन् ददर्श च । विद्यौषधीभ्यो ह्रीमंतं यातः शरदि खेचरान् ।।३३३ ।। विद्यादाने तव शिष्यो भवामीत्यवदत् स ताम् । आमेत्युक्त्वा तमादाय ह्रीमत्यद्रौ ययौ च सा ।। ३३४ ॥ तत्र शौरिं रंतुकामं ज्ञात्वा सा कदलीगृहम् । विकृत्य रमयामासापश्यच्चैकं कलापिनम् ॥३३५ ।। अहो पूर्णकलापोऽयं कलापीति सविस्मया । स्वयमेव तमानेतुं दधावे मदिरेक्षणा ।। ३३६ ।। गतामुपमयूरं च मयूरव्यंसकः स तु । स्वं समारोप्य तां जहे व्योग्नि तार्क्ष्यर्वदुत्पतन् ।। ३३७ ।। शौरिस्तमनुधावंश्च घोषेऽगाद्गोपिकार्चितः । तत्रोषित्वा निशां प्रातः प्राचालीद्दक्षिणां प्रति ।। ३३८ ॥ सोऽगाद्गिरितटग्रामं तत्र वेदध्वनि गुरुम् । श्रुत्वा पप्रच्छ कमपि द्विजं तत्पाठकारणम् ।।३३९ ।। ऊचे द्विजो दशग्रीवसमये नारदर्षये । दिवाकरः खेचरोऽदात् स्वसुतां रुपशालिनीम् ।।३४० ॥ तश्योऽस्ति सुरदेवो ग्रामेऽत्र ग्रामणीर्द्विजः । तस्य पल्यां क्षत्रियायां सोमश्रीर्वेदवित्सुता ।। ३४१ ।। पित्रा पृष्टस्तद्वरार्थे करालो ज्ञान्यभाषत । एतां वेदे यो विजेता स एनां परिणेष्यति ।। ३४२ ।। तां विजेतुमयं लोको वेदाभ्यासपरोऽनिशम् । वेदोपाध्याय इह च ब्रह्मदत्तोऽस्ति नामतः ।।३४३ ।। वेदाचार्य तमित्यूचे विप्रीभूयाथ यादवः । गौतमः स्कंदिलो विप्रोऽध्येष्ये वेदांस्त्वदंतिके ।।३४४ ।। अनुज्ञातस्ततस्तेनापठद्वेदास्तदग्रतः । वेदे सोमश्रियं जित्वा पर्यणैषीच्च यादवः ।। ३४५ ॥ १ घूर्तमयूरः ।२ गरुडवत् । ३ वजे । ४ स्कदिलनामा ।
|| वसुदेवस्य द्विजपुत्री सोमश्रिया विवाहः।
।। ६९॥