________________
त्रिषष्टिशलाकापुरुषचरिते
७०॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
विलसन् स तया तत्र ययावुद्यानमन्यदा । तत्रेन्द्रशर्मनामानमद्राक्षीच्चेन्द्रजालिकम् ।।३४६ ।। तस्याश्चर्यकरी विद्यां दृष्ट्वा शौरिरयाचत । सोऽप्युवाच गृहाणेमा विद्यां मानसमोहिनीम् ।। ३४७ ।। विद्येयं सायमारब्धा सिध्यत्यभ्युदये रवेः । परं बहूपसर्गेति सखा कोऽपि विधीयताम् ।। ३४८ ।। न मे सखा विदेशस्यास्तीत्युक्तस्तेन सोऽवदत् । भ्रातः सखास्मि ते भ्रातुर्जाया च वनमालिका ।। ३४९ ॥ इत्युक्तश्चाग्रहीद्विद्यां शौरिस्तां विधिवज्जपन् । मायाविना शिबिकयापजहे चेन्द्रशर्मणा ।। ३५० ॥ विमृशन्नुपसर्ग तं शौरिविद्यां जजाप च । प्रातत्विा च तां मायां शिबिकाया अवातरत् ।। ३५१ ॥ धावत्सु चेन्द्रशर्मादिष्वतिगच्छन्स यादवः । दिनशेषे प्राप तृणशोषकं संनिवेशनम् ।। ३५२ ।। तत्र चायतने सुप्तो नरादेनैत्य च द्रुतम् । उत्थापितो वसुदेवः प्रजघ्ने मुष्टिभिर्भृशम् ।।३५३ ।। बाहूबाहवि कृत्वा च पुरुषादं चिराय तम् । शौरिः संयमयामास पोतनक्रीतमेषवत् ।। ३५४ ॥ भूमावास्फाल्य रंजक इव क्षौमं शिलातले । अवधीत्पुरुषादं तं प्रातर्लोकोऽप्युदैक्षत ॥३५५ ॥ लोकः प्रीतो रथे शौरिमारोप्यान्तर्निवेशनम् । वाद्यमानेन तूर्येण वयं वरमिवानयत् ।। ३५६ ॥ पंच कन्याशतान्यस्मै लोकस्तूर्णमढौकयत् । तन्निषिध्याब्रवीच्छौरिनरादः को न्वसाविति ।। ३५७ ।। तत्रैकः कश्चिदाचख्यौ श्रीकांचनपुरे पुरे । कलिंगेष्वभवद्राजा जितशत्रुर्महाभुजः ॥३५८ ॥ १ नरानत्तीति नरादो राक्षसस्तेन । २ भाषायां 'धोबी' । ३ कौशेयवस्त्रम् ।
जालिकेन
वसुदेवस्य हरणं वसुदेवेन
नराददमनं च।
॥ ७० ॥