________________
त्रिषष्टि
शलाका
पुरुषचरि 1199 11
सोदासस्तस्य पुत्रोऽयं प्रकृत्या मांसलोलुपः । राजा स तु निजे देशे प्राणिनामभयं ददौ ।। ३५९ ।। दिने दिने चैकबर्हिमांसं तेन सुतेन तु । याचितः प्रतिपेदे सोऽनभीष्टमपि भूपतिः ।। ३६० ।। प्रत्यहं बर्हिणं वंशगिरेः. सूदाः समानयन् । पाकाय तु हतोऽन्येद्युर्माजरिण हृतोऽथ सः ।। ३६१ ।। ततस्तदा मृतार्भस्य पक्त्वा तस्मै पलं ददुः । अद्यातिस्वादु किं मांसमित्यपृच्छच्च सोऽपि तान् ।। ३६२ ।। यथातथे तदाख्याते सोदासोऽप्येवमादिशत् । दिने दिने शिखिस्थाने संस्कार्योऽतः परं नरः ।। ३६३ ।। इत्युदित्वा स्वयं डिंभान्नित्यं लोके जहार सः । ज्ञातश्च भूभुजा कोपात्स्वदेशान्निरवास्यत ।। ३६४ ॥ पितृभीतः सोऽत्र दुर्गे निवसन् प्रत्यहं नरान् । विनिघ्नन् पंचषान् पापः साधु साधु हतस्त्वया ।। ३६५ ।। इत्युक्तस्तैर्मुदा शौरिस्ताः कन्याः परिणीतवान् । उषित्वा च निशां सोऽगादचलग्राममुत्तमम् ॥ ३६६ ॥ तत्र मित्रश्रियं सार्थवाहपुत्रीमुपायत । यादवो ज्ञानिना तस्या वरत्वेनोदितः पुरा ॥ ३६७ ॥ वेदसामपुरं गच्छन् स तया वनमालया । एह्येहि देवरेत्युक्त्वा निन्ये निजनिकेतने ।। ३६८ ।। तया च वसुदेवोऽयमित्याख्याते च तत्पिता । पृष्ट्वा स्वागतमित्याख्यदत्रास्ति कपिलो नृपः ।। ३६९ ।। कपिला नाम कन्यास्य त्वं तस्या ज्ञानिना वरः । तिष्ठन् गिरितटग्रामे महात्मन् कथितः पुरा ॥ ३७० ॥ स्फल्लिंगवहनं नाम सोऽश्वं प्रदमयिष्यति । तवोपलक्षणोपायस्तेनैष ज्ञानिनोदितः ॥ ३७१ ॥
१ मृतबालस्य । २ मांसम् । ३ पंच वा षड् वा पंचषास्तान् । ४ परिणीतवान् । * कलापी
अष्टमं पर्व द्वितीयः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
नरादोत्पत्तिः ।
।। ७१ ।।