________________
त्रिषष्टिशलाकापुरुषचरिते
॥७२॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
त्वामानेतुं प्रैषि राज्ञा मज्जामातेन्द्रजालिकः । इन्द्रशर्मान्तरा तु त्वं गत इत्याख्यदत्र सः ।। ३७२ ।। दिष्ट्यासीर्दमयाश्वमित्युक्तस्तेन स वृष्णिसूः । तं राज्ञोऽश्वमदमयत् कपिलामुदुवाह च ।। ३७३ ।। प्रतीक्षितस्तेन राज्ञा श्यालेनांशुमतापि च । सोऽजीजनत् कपिलायां कपिलं नाम नन्दनम् ।।३७४ ।। हस्तिबन्धे गतोऽन्येधुर्बद्ध्वारोहत् स हस्तिनम् । तं वियत्युत्पतंतं जघानैकेन मुष्टिना ॥३७५ ।। सरस्तीरे पतन्नीलकंठाख्यश्च स खेचरः । बभूव यो नीलयशोविवाहेऽप्याययौ युधि ।। ३७६ ।। ततो भ्राम्यन् ययौ शौरिः पुरे सालगुहाह्वये । भाग्यसेनं नृपं तत्र धनुर्वेदमशिक्षयत् ।। ३७७ ।। योधुं च भाग्यसेनेन मेघसेनं तदग्रजम् । तत्रायातं वसुदेवः पराजिग्ये महाभुजः ।। ३७८ ।। भाग्यसेननृपः पद्मोपमा पद्मावती सुताम् । मेघसेनस्त्वश्वसेनां वार्ष्णेयाय ददौ तदा ॥३७९ ।। पद्मावत्यश्वसेनाभ्यां रत्वा तत्र चिराय सः । जगाम भद्दिलपुरे नगरे वृष्णिनन्दनः ।।३८० ॥ तत्रापुत्रविपन्नस्य पुंद्रराजस्य कन्यकाम् । पुंद्रां नृरुपामोषध्या राज्यं पांतीं ददर्श सः ।।३८१ ॥ वार्ष्णेयः स्त्रीति तां ज्ञात्वा सानुरागामुपायत । पुंद्रो नाम सुतस्तस्यां जज्ञे राजा च सोऽभवत् ।। ३८२ ।। खेचरोऽङ्गारकस्तत्र रात्रौ हंसापदेशतः । हृत्वा चिक्षेप गंगायां समुद्रविजयानुजम् ॥३८३ ।। प्रातः शौरिर्ददर्शलावर्धनं नामतः पुरम् । तत्राट्टे सार्थवाहस्योपाविशत्तदनुज्ञया ॥३८४ ॥ १ हंसव्याजेन ।
BHASKRISHRASABHARASHARABHASHASANSK
| वसुदेवस्य | राजपुत्रीमि विवाहः।
॥ ७२॥