________________
त्रिषष्टिशलाकापुरुषचरित
॥७३॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तत्प्रभावात्तस्य लाभो हेमलक्षमजायत । सोऽपि ज्ञात्वा तत्प्रभावं गौरवादाललाप तम् ।। ३८५ ॥ तं स्वर्णरथमारोप्य सार्थवाहोऽनयद्गृहे । अथ रत्नवती कन्यां तेन स्वां पर्यणाययत् ।। ३८६ ।। जाते शक्रमहेऽन्येधुः श्वशुरेण सहैव सः । दिव्यं स्यंदनमारुढो महापुरपुरे ययौ ।। ३८७ ॥ बहिः पुराच्च प्रासादान्नूतनान् प्रेक्ष्य यादवः । पप्रच्छ श्वशुरं किं नु द्वितीयं किमिदं पुरम् ।। ३८८ ।। सार्थवाहोऽवदत् सोमदत्तोऽत्रास्ति महीपतिः । मुखश्रियातिसोमश्रीः सोमश्रीस्तस्य कन्यका ।। ३८९ ॥ तस्याः स्वयंवरकृते प्रासादाः कारिता इमे । आहूताश्च नृपा भूयो विसृष्टास्तदपाटवात् ।।३९० ॥ श्रुत्वेति यादवो गत्वा शक्रस्तंभं नमोऽकरोत् । तं नत्वा राजशुद्धांतोऽप्यचलत् पूर्वमागतः ।। ३९१ ॥ तदा चालानमुन्मूल्य तत्रागाद्भुपतेर्द्विपः । रथाद्राजकुमारी च पातयामास भूतले ।। ३९२ ।। दीनामशरणां शौरिस्तां प्रेक्ष्य शरणार्थिनीम् । स्थित्वाग्रेऽतर्जयदिभं प्रतिकार इव स्वयम् ।। ३९३ ।। तां त्यक्त्वा यादवायेभो दधावे क्रोधदुर्धरः । खेदयामास तमिभं यादवोऽपि महाबलः ।।३९४ ।। मोहितेभो यादवस्तामादायैकत्र वेश्मनि । नीत्वा साश्वासयामासोत्तरीयपवनादिना ।। ३९५ ।। धात्रीभिः सा गृहे निन्ये शौरिस्तु श्वशुरान्वितः । कुबेरसार्थवाहेन गौरवान्निजवेश्मनि ॥३९६ ।। १ इन्द्रमहोत्सवे ।२ मुखलक्ष्म्याऽतिक्रांता चंद्रश्रीर्यया सा । ३ तेषां नृपाणामपाटवात् अनैपुण्यात् । ४ राज्ञोऽन्तःपुरस्त्रियः । ५ गजबंधनस्थानम् । ६ प्रतिकर्ता ।
वसुदेवस्य सार्थवाहकन्यया विवाहः ।
।। ७३ ॥