________________
| अष्टमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
७४॥
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
| वसुदेवस्य
तत्र शौरिः स्नातभुक्तोऽस्थाद्यावत्तावदागता । जयाशी:पूर्वकं राजप्रतीहारीदमब्रवीत् ।। ३९७ । भूपतेः सोमदत्तस्य सोमश्रीवरकन्यका । स्वयंवरे वरस्तस्याः किल स्यादित्यभूत्पुरा ।। ३९८ ।। परं सर्वाणयतिनोऽभ्यागतान् केवलोत्सवे । पश्यंत्यास्त्रिदशांस्तस्या जातिस्मृतिरजायत ।।३९९ ।। ततः प्रभृत्यसौ मौनमालंब्यास्थान्मृगेक्षणा । मया रहसि चान्येधुः पृष्टा सत्येवमब्रवीत् ।। ४०० ।। आसीद्देवो महाशुक्रे भोगस्तेन मया सह । अतिवल्लभया भुक्ताः सुचिरं तत्र जन्मनि ॥ ४०१ ।। मयैव सह सोऽन्येधुर्यात्रां नंदीश्वरादिषु । कृत्वार्हज्जन्मोत्सवं च स्वस्थानाय न्यवर्तत ॥ ४०२ ॥ यावच्च ब्रह्मलोकेऽगात्तावदच्योष्ट सोऽमरः । शोकार्ता तं च मार्गती भरतेऽत्र कुरुष्वगाम् ॥ ४०३ ।। केवलज्ञानिनौ तत्र दृष्ट्वापृच्छं दिवच्युतः । क्व मे पतिः समुत्पन्नस्ततस्तावेवमूचतुः ।। ४०४ ।। हरिवंशे तव पतिः प्रादुर्भूतो नृपालये । त्वमपि प्रच्युता स्वर्गाद्राज्ञः पुत्री भविष्यसि ।। ४०५ ॥ यदा शक्रमहे च त्वां कुंजरान्मोचयिष्यति । स तदानीं पुनरपि पतिस्तव भविष्यति ॥ ४०६ ॥ तौ वंदित्वा भक्तिपूर्वं स्वस्थानमगमं तदा ।क्रमाच्छ्युत्वाहमुत्पन्ना सोमदत्तस्य कन्यका ।। ४०७ ।। सर्वाणकेवले देवान् दृष्ट्वा जातिस्मृतिं गता । एतदज्ञासिषं तस्मात् कृतं मौनमिदं मया ।। ४०८ ।। एतत्तस्या वचः सर्वं मया राज्ञे निवेदितम् । राज्ञा विसृष्टाश्च नृपाः स्वयंवरसमागताः ।। ४०९ ।। १ पूर्वं स्नातः पश्चाद् मुक्तः इति स्नातभुक्तः ।
नृपपुत्र्या
सोमश्रिया विवाहः ।
।। ७४॥