________________
त्रिषष्टिशलाका
पुरुषचरिते ॥ ७५ ॥
प्रत्ययश्चाभवत्तस्या मोचितायास्त्वया द्विपात् । त्वामानेतुं प्रेषितास्मि तदेयुद्वह वीर ताम् ।। ४१० ।। तया सह ततो गत्वा वसुदेवो नृपौकसि । सोमश्रियमुपायंस्त रेमे तत्र तया सह ।। ४११ ।। शौरिः सुप्तोत्थितोऽन्येद्युर्नापश्यत्तां मृगेक्षणाम् । करुणं च रुदंस्तस्थौ शून्यचित्तो दिनत्रयम् ॥। ४१२ ॥ स्थितामुपवनेऽद्राक्षीद्वार्ष्णेयस्तामुवाच च । केनागसेयच्चिरं त्वं नष्टासि वद मानिनि ।। ४१३ ।। साप्यूचे त्वत्कृतेऽकारि विशिष्टो नियमो मया । मौनव्रते स्थिता चास्मि प्राणनाथ दिनत्रयम् ।। ४१४ ॥ अर्चित्वा देवतां चैतां भूयः पाणिग्रहं कुरु । अयं हि विधिरत्रेति शौरिश्चक्रे च तत्तथा ।। ४१५ ।। देव्याः शेषेति मदिरां यादवः पायितस्तया । भेजेतरां रतिसुखं कांदर्पिक इवामरः ॥ ४१६ ॥ सुप्त निशि तया सार्धं निद्राच्छेदे स तां पुनः । अन्यरुपामुदैक्षिष्ट सुभ्रु कासीत्युवाच च ।। ४१७ ।। साप्यूचे दक्षिणश्रेण्यां सुवर्णाभाभिधे पुरे । चित्रांगः नाम राजाभूत्तस्यांगारवती प्रिया ।। ४१८ ।। तयोर्मानसवेगः सूः कन्या वेगवती त्वहम् । चित्रांगः परिवव्राज राज्ये विन्यस्य तं सुतम् ।। ४१९ ।। मात्रा तेन ते भार्या स्वामि गतह्रिया । रतये चाटुभिश्चित्रैर्भणिता मन्मुखेन सा ।। ४२० ॥ महासती तु ते पत्नी प्रत्यपद्यत तन्न हि । अमंस्त मां सखीत्वेन त्वामानेतुं च सादिशत् ।। ४२१ ।। आयाता त्वामहं दृष्ट्वा स्मरार्ताकार्षमीदृशम् । ममासि कुलकन्यायाः पतिरुद्वाहपूर्वकः ।। ४२२ ।। १ प्रतीतिः । २ ऐहि आगच्छ । ३ अथ मम नियमेऽयं भूयः पाणिग्रह रुपोविधिरस्ति ।
4556
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
वसुदेवस्य
नृपपुत्र्या सोमश्रिया
विवाहः ।
।। ७५ ।।