________________
त्रिषष्टिशलाकापुरुषचरिते
७६॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
प्रातर्वेगवतीं दृष्ट्वा लोकः सर्वो विसिष्मिये । सोमश्रीहरणं लोके साचख्यौ पत्यनुज्ञया ।। ४२३ ।। रतश्रान्तस्तया सुप्तो वसुदेवोऽन्यदा निशि । जहे मानसवेगेन वेगादतिगरुत्मना ।। ४२४ ॥ ज्ञात्वा च वसुदेवेन जघ्ने मुष्ट्या स खेचरः । प्रहारार्तश्च तं सद्योऽमुंचद्भागीरथीजले ।। ४२५ ।। विद्या साधयतश्चंडवेगस्य व्योमचारिणः । तत्रस्थस्यापतत् स्कंधे स विद्यासिद्धिकारणम् ।। ४२६ ।। विद्या सिद्धा त्वत्प्रभावान्महात्मन् किं ददामि ते । तेनेत्युक्तो वृष्णिपुत्रोऽमार्गद्विद्यां खगामिनीम् ॥४२७॥ तां विद्यां खेचरः सोऽदाद्वारे कनखलस्य च । समारेभे साधयितुं वसुदेवः समाहितः ।। ४२८ ॥ ततो गते चंडवेगे विधुद्वेगनृपात्मजा । खेचरी मदनवेगा तत्रायाता ददर्श तम् ।। ४२९ ।। हृत्वा स्मरार्ता सा शौरिं नीत्वा वैताढ्यपर्वते । उद्याने पुष्पशयने पुष्पचापमिवामुचत् ॥ ४३० ॥ नगरेऽमृतधाराख्ये स्वयं तु प्रविवेश सा । प्रातः शौरिं नमोऽकार्पुरत्य तद्भातरस्त्रयः ॥ ४३१ ॥ आद्यो दधिमुखस्तेषु दंडवेगो द्वितीयकः । तृतीयश्चंडवेगो यस्तस्य विद्याप्रदोऽभवत् ॥ ४३२ ।। नीत्वा शौरि पुरे ते तु तया मदनवेगया । विधिनोद्वाहयामासुः सुखं रेमे तया च सः ॥ ४३३ ।। तोषयित्वा तयान्येधुः शौरिर्मदनवेगया । याचितः प्रददौ तस्यै वरं भुजभृतां वरः ।। ४३४ ।। शौरिं दधिमुखोऽन्येधुनमस्कृत्यैवमब्रवीत् । दिवस्तिलकनाम्न्यस्ति पुरे त्रिशिखरो नृपः ॥ ४३५ ।।
वसुदेवस्य विद्याघरेश
पुत्र्या
मदनवेगया विवाहः ।
।। ७६ ॥