________________
त्रिषष्टिशलाका
पुरुषचरिते
अष्टम पर्व | द्वितीयः |सर्गः |श्रीअरिष्ट| नेमिजिनचरितम् ।
७७॥
सूर्पकस्य सुतस्यार्थे मत्पितुः कन्यकामिमाम् । सोऽयाचिष्ट न चादत्त विधुद्वेगस्तु मत्पिता ।। ४३६ ।। पित्रा पुत्रीवरं पृष्टश्चारणर्षिरदोऽवदत् । हरिवंश्यो वसुदेवो भावी त्वदुहितुर्वरः ।। ४३७ ।। चंडवेगस्य गंगायां विद्याः साधयतः स तु । स्कंधे पतिष्यति निशि विद्याः सेत्स्यति तत्क्षणात् ।। ४३८ ।। श्रुत्वेति मत्पिता नादात्तस्मै पुत्री विशेषतः । बद्ध्वा च बलिना नीतो राज्ञा त्रिशिखरेण सः ।। ४३९ ।। पन्या मदनवेगायाः स्वयं दत्तं वरं स्मरन् । श्वशुरं मोचयेदानी मां श्वशुर्यं च मानय ।। ४४० ।। नमिर्बशादिकंदो नः पुलस्त्यस्तस्य नंदनः । तवंशे मेघनादोऽभूदरिंजयपुरेश्वरः ॥ ४४१ ॥ सुभूमचक्री जामाता तस्मै श्रेणिद्वयश्रियम् । ददावस्त्राणि दिव्यानि ब्राह्मानेयादिकानि च ।। ४४२ ।। तस्य वंशेऽभवद्राजा रावणोऽथ बिभीषणः । बिभीषणस्यान्वयेऽभूद्विधुद्वेगः पिता मम ॥ ४४३ ॥ तान्यस्त्राणि क्रमायातान्यादत्स्व सफलानि ते । महाभाग्यस्य भावीनि निर्भाग्याणां मुधा पुनः ।। ४४४ ।। इत्युक्त्वा तेन दत्तानि जग्राहास्त्राणि वृष्णिभूः । असाधयच्च विधिना पुण्यैः किं न हि सिध्यति ।। ४४५ ॥ श्रुत्वा मदनवेगां च प्रदत्तां भूचराय ताम् । क्रोधाध्मातस्त्रिशिखरः स्वयं योद्धमुपाययौ ।। ४४६ ।। मायामयं स्वर्णतुंडं स्पंदनं खेचरार्पितम् । आरुढो युयुधे शौरिवृतो दधिमुखादिभिः ॥ ४४७ ।। ऐन्द्रेणास्त्रेण वार्ष्णेयस्त्रिशिखरशिरोऽच्छिदत् । अमोचयच्च श्वशुरं दिवस्तिलकमेत्य तम् ।। ४४८ ॥ १ श्वशुरसंबंधिनम् । २ गृहाण ।
| मदनवेगावृत्तान्तः ।
॥ ७७॥