________________
त्रिषष्टिशलाकापुरुषचरिते
७८॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
एत्य च श्वशुरपुरे शौरेर्विलसतः सतः । पत्न्यां मदनवेगायामनाधृष्टिः सुतोऽभवत् ।। ४४९ ।। सिद्धायतनयात्रां सोऽन्येधुश्चक्ने सखेचरः । खेचरीभिर्वीक्ष्यमाणः सरागाभिर्मुहुर्मुहुः ॥ ४५० ॥ यात्रायाश्चाययौ शौरिरेहि वेगवतीति च । व्याहार्षीन्मदनवेगां तल्पं सापि ययौ क्रुधा ।। ४५१ ।। तदा त्रिशिखरपल्या सूर्पणख्या तदालयम् । निर्दह्य मदनवेगारुपयाहारि वृष्णिसूः ।। ४५२ ॥ तया जिघांसया व्योम्नो मुक्तो राजगृहांतिके । तृणपुंजस्योपरिष्टात् पपात च यदूद्वहः ॥ ४५३ ।। गीयमाने जरासंधे ज्ञात्वा राजगृहं पुरम् । गतः शौरिः स्वर्णकोटि जित्वारर्थिनां ददौ ।। ४५४ ।। बद्ध्वारक्षैर्नृपगृहं ततः शौरिरनीयत । विनापराधं किं बद्धोऽस्मीत्यपृच्छच्च तान् भटान् ।। ४५५ ।। तेऽप्यूचुर्ज्ञानिनाख्यातं जरासंधस्य यः प्रेगे । कोटि जित्वार्थिनां दाता तत्सूनुर्वधकस्तव । ४५६ ।। सोऽसि राजाज्ञया तेन निरागस्कोऽपि मार्यसे । इत्युक्त्वा वसुदेवं ते मध्येभस्त्रं प्रचिक्षिपुः ॥ ४५७ ।। अपवादभयाच्छन्नं ते वार्ष्णेयं जिघांसवः । अनेरलोठयन् वेगवत्या धात्र्यग्रहीच्च तम् ॥ ४५८ ।। नीयमानस्तया शौरिर्दध्यावित्यहमप्यहो । मन्ये गृहीतो भारुंडैश्चारुदत्त इवांबरे ॥४५९ ।। मुक्तश्च पर्वतेऽपश्यद्वेगवत्याः पदद्वयम् । उपलक्ष्य च भस्त्राया निर्ययौ यदुपुंगवः ।। ४६० ॥ नाथ नाथेति रुदंती सुदंतीमालिलिंग ताम् । त्वया कथमहं प्राप्त इत्यपृच्छच्च यादवः ॥ ४६१ ।। १ शय्याम् २ यदुकुलश्रेष्ठः ३ प्रभाते । ४ भस्त्राया मध्ये मध्येभस्त्रम् ।
जरासंघपुरुषैर्वसुदेवग्रहणम् ।
|| ७८॥