________________
| अष्टमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥७९॥
सर्गः
| श्रीअरिष्टनेमिजिनचरितम् ।
अश्रुण्युन्मृज्य सावोचच्छयनोत्थितया मया । तदा तल्पे न दृष्टोऽसि स्वामिन् भाग्यविपर्ययात् ।। ४६२ ।। सममंतःपुरस्त्रीभी रुदत्याः करुणं मम । प्रज्ञप्त्या विद्ययाख्यातं हरणं पतनं च ते ।। ४६३ ।। ततः परमजानाना व्यमृशं यत्पतिर्मम । पार्वे कस्याप्यृषेर्विद्यामाचष्टे तत्प्रभावतः ।। ४६४ ॥ ततश्च त्वद्वियोगार्ता स्थिता कालं कमप्यहम् । त्वामन्वेष्टुं जगद्मांता स्वामिन् भूपत्यनुज्ञया ॥४६५ ।। दृष्टोऽसि सिद्धायतने समं मदनवेगया । तच्चैत्याच्च पुरे प्राप्तं त्वामनुप्रापमाश्वहम् ।। ४६६ ।। तत्र चान्तर्हिताश्रौषं मन्नामोदीरितं त्वया । चिरं विरह क्लेशं चामुचं स्नेहतस्तव ॥ ४६७ ॥ क्रुधा मदनवेगा द्राक् प्रविवेशांतरालयम् । कृतं प्रदीपनं चाथ सूर्पणख्यौषधीबलात् ।। ४६८ ॥ हृतश्च मदनवेगारुपया त्वं तया ततः । तयोह्यमानं त्वां धर्तुमन्वधावमहं द्रुतम् ।। ४६९ ।। कल्पितमानसवेगारुपाधस्तात् स्थिता तया । अहं दृष्टा तर्जिता च विद्यौषधिसमर्थया ।। ४७० ।। तस्याश्च नष्टा चैत्याय यांती मुनिमलंघयम् । मम विद्यास्ततो भ्रष्टा धात्री च मिलिता तदा ।। ४७१ ।। चिंतयंती क्व मे भर्तेत्यहं धात्रीं न्ययोजयम् । तया भ्रमंत्या दृष्टस्त्वं निपतन् पर्वताग्रतः ॥ ४७२ ।। गृहीतश्च तया वेगात्त्वं भस्त्रांतःस्थितः प्रभो । हीमत्तीर्थे पंचनदे समानीय व्यमुच्यथाः ॥ ४७३ ।। इति श्रुत्वा सह तया तत्रास्थात्तापसाश्रमे । कन्यां ददर्श चान्येधुनद्यां पाशनियंत्रिताम् ।। ४७४ ।। भणितो वेगवत्या च स स्वयं च कृपापरः । कन्यकां तां नागपाशबंधाच्छौरिरमोचयत् ।। ४७५ ।।
वेगवतीवृत्तान्तः।
।। ७९॥