________________
त्रिषष्टिशलाकापुरुषचरिते
॥ ८० ॥
मूर्च्छितोत्थापिता सा च शौरिणा जलसेकतः । ततः प्रदक्षिणीकृत्य वसुदेवमवोचत् ॥ ४७६ ।। सिद्धा विद्यास्त्वत्प्रभावान्ममाद्या शृणु चापरम् । वैताढ्याद्रावस्ति पुरं नाम्ना गगनवल्लभम् ।। ४७७ ।। विद्युद्दष्ट्रो नमिवंश्योराजाभूत्तत्र सोऽन्यदा । प्रत्यग्विदेहे प्रतिमास्थितं मुनिमुदैक्षत ॥ ४७८ ॥ भोः कोऽप्ययमुत्पातस्तन्नीत्वैनं वरुणाचले । हतेत्युक्त्वाताडयत्तं विद्युद्दष्ट्रो नभश्चरैः ।। ४७९ ।। शुक्लध्यानजुषस्तस्य मुनेर्जज्ञे च केवलम् । केवलिमहिमार्थं च धरणेन्द्रः समाययौ ।। ४८० ।। तस्यर्षेः 'प्रत्यनीकांस्तान् विलोक्य धरणः क्रुधा । भ्रष्टविद्यांश्चकाराशु दीनास्ते चैवमूचिरे ॥ ४८१ ॥ कोऽप्येष इति नो विद्मो विद्युद्दष्ट्रेण केवलम् । उत्पातोऽसाविति प्रेर्य कर्मेदं कारिता मुनौ । ४८२ ॥ धरणेन्द्रोऽप्युवाचास्य केवलोत्सवहेतवे । अहमागामरे पापा अज्ञानां वः करोमि किम् ॥ ४८३ ॥ भूयः क्लेशेन विद्या वः सेत्स्यति परमार्हताम् । साधूनां तच्छ्रितानां च द्विषं मोक्ष्यंति ताः क्षणात् ॥ ४८४ ॥ रोहिण्याद्या महाविद्या विद्युद्दंष्ट्रस्य दुर्मतेः । न सेत्स्यत्यस्य संताने पुरुषस्य स्त्रिया अपि ।। ४८५ ।। अथ सेत्स्यति ताः साधोर्महापुंसश्च दर्शनात् । इत्युदित्वा धरणेन्द्रो ययौ निजनिकेतनम् ।। ४८६ ।। इह विद्याः साधयंती कन्या तद्वंशसंभवा । विष्णुना पुंडरीकेणोदूढा केतुमती पुरा ॥ ४८७ ॥ सिद्धविद्या त्वत्प्रभावात्तद्वंश्याहं च कन्यका । बालचंद्रेति चंद्रास्य मामुद्वह वशंवदाम् ॥ ४८८ ॥ १ प्रतिपक्षान् ।
++ 6
6
अष्टमं पर्व द्वितीयः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
वेगवतीवृत्तान्तः ।
॥ ८० ॥