________________
| अष्टमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥४८॥
सर्गः श्रीअरिष्ट
नेमिजिनचरितम् ।
तपसानेन भूयासं वधायास्य भवान्तरे । एवं कृत्वा निदानं सोऽनशनेन व्यपद्यत ॥ ६१ ।। सोऽथोग्रसेनभाया धारिण्या उदरेऽभवत् । तस्याश्च दोहदो जज्ञे पत्युः पललभक्षणे ।। ६२ ॥ दिने दिने क्षीयमाणा लज्जमाना च धारिणी । कथंचित्कथयामास तं पत्येऽधमदोहदम् ।। ६३ ।। राज्ञो ध्वान्तस्थितस्याथोदरे न्यस्य शशामिषम् । छित्वा छित्वा प्रपश्यन्त्या देव्यास्तन्मत्रिणो ददुः ।। ६४ ।। सा पूर्णदोहदा मूलप्रकृति पुनरागता । ऊचे कि जीवितव्येन किं गर्भेण विना पतिम् ।।६५ ॥ मर्तुकामां मंत्रिणस्तामूचुर्यत्प्राप्तजीवितम् । स्वामिनं दर्शयिष्यामः सप्तरात्रेण ते पुनः ।। ६६ ॥ इत्थं स्वस्थीकृतायाश्च तस्या अहनि सप्तमे । तेऽदर्शयन्नुग्रसेनं सा चक्रे च महोत्सवम् ।।६७ ॥ पौषकृष्णचतुर्दश्यां भद्रायां मूलगे विधौ । शर्वर्यां सुषुवे सूनुं सोग्रसेनमहिष्यथ ।। ६८ ॥ दोहदेनापि सा गर्भाभीता तं जातमात्रकम् । चिक्षेप कांस्यपेटायां कारितायां पुरापि हि ।। ६९ ।। राजस्वनामांकमुद्राद्वययुक्तां सपत्रिकाम् । सा दास्याक्षेपयद्रत्नपूर्णा तां यमुनाजले ॥७० ॥ सूनुर्जातो मृतश्चेति राज्ञ राज्ञी शशंस च । नद्या निन्ये च मंजूषा द्वारे शौर्यपुरस्य सा ॥७१ ॥ प्रातः शौचार्थमायातः सुभद्रो रसवाणिजः । ददर्श कांस्यपेटां तां चकर्ष च बहिर्जलात् ॥७२ ॥ पत्रिकारत्नमुद्राभिः सहितं तं च बालकम् । बालेन्दुमिव तन्मध्ये स ददर्श सविस्मयम् ।।७३ ॥ १ मांसभक्षणे । २ त्रपावती । ३ मूलनक्षत्रस्थिते चन्द्रे ।
कंसजन्म, कुदोहदभीतया मात्रा तस्य त्यागश्च ।
॥४८॥